पृष्ठम्:Prabandhaprakasha.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८
प्रबन्धप्रकाश:
महाराझ्या निर्मापितम् । सौवर्णशिखर च शूरशिरोमणिना
रणजीतसिंहेन संघटितम् । तदेवेदं मन्दिरम्, स एव च
भगवान् विश्वनाथ: परमास्तिकानां संकल्पकल्पनाय कल्पत-
रुरिव विराजमानोऽद्यापि हिन्दूनां गौरवमक्षुण्णमिव रक्षति ।
-
प्राय: सर्वेष्वेव शास्त्रषु तत्तच्छास्त्रीय निबन्धनिर्मातार:
प्रधानपण्डिता अपि स्वस्वनिवासेनेमां काशिकां समलंचक्रिरे ।
तत्र व्याकरणे पतञ्जलिरत्रैव नागकूपे निवसन् महाभाष्य
प्रणिनायेति किंवदन्ती जागर्ति । | काशिकाकारी वामनजया-
दित्यावपि कञ्चित्कालं काशीमेवालङ्कुरुतः स्म । अर्वाचीनेषु
प्रक्रियाकौमुदीकारो रामचन्द्राचार्यः, सर्वतन्त्रस्वतन्त्रो महावैया-
करणोऽनेक प्रबन्धनिर्माता श्रीशेषकृष्णः, सिद्धान्तकौमुद्यादि निर्माता
श्रीभट्टोजिदीक्षितः, नागेश भट्टश्च काशिका एवासन् | ततः परं
तच्छिण्यानुक्रमे पायगुण्डेबालंभट्टस्तच्छिष्य : शम्भुदेवो गाडगी-
ळोपनामको जनार्दन : काशीनाथशास्त्री राजारामशास्त्री बाल-
सरस्वतीतिप्रथितो बालशास्त्री च सर्वेऽप्यमी दाक्षिणात्या अपि
का शिकाशिशव एव प्रथिता अभूवन् । श्रीबालशास्त्रि शिष्येषु
प्रसिद्धयशोगौरवा महामहोपाध्यायादिपदाङ्किता राजप्रजोभय-
समुंपार्जितसम्माना: श्री६ गङ्गाधरशास्त्रि, दामोदरशास्त्रि, शिव-
कुमारशास्त्रि, तात्याशास्त्रियोऽपि तथाविधा एव समभूवन् ।
तच्छिष्यपरम्परास्वेव सम्प्रत्यपि महामहोपाध्याय श्री नित्यानन्द-
पन्तपर्वतीय प्रभृतयो महावैयाकरणा विराजन्ते । साहित्य-
-

१ स्वर्ग गतोऽसौ महाभाग: १९८८ वैक्रमाब्दे ।
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३६&oldid=355434" इत्यस्माद् प्रतिप्राप्तम्