पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ १ ॥ विष्णोरिति । वीर्याणि महिनः को वा कथयतु गणयेद्, न कोऽपि । कश्च धरणेः रेणून् मिमीते । तदपि न कोऽपि । यस्य विष्णोः अब्रित्रयेण त्रिभिः पदन्यासैः त्रिजगत् त्रैलोक्यम् अभिमितं परिच्छिन्नम् । अतो बलेरादाय स्वभुज- गुप्ततया पूर्णसम्पद् मोदते सन्तुष्टसकलजनं च वर्तते । किञ्च, योऽसौ विष्णुः विश्वानि सर्वलोकं धत्ते योगेर्येण धारयति तस्य प्रियं धाम बैकुण्टम् अभिया याम् अहं प्राप्नुयां, यत्र तद्भक्ता माद्यन्ति | अमृतरसो मोक्षसुखं, तद्रूपस्य मर- न्दस्य मधुनो यन्त्र वैकुण्ठे प्रवाहः सर्वतो निष्यन्दः ॥ १ ॥ १ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे य: प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत् सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमाभिसरेत् प्राप्यमन्ते पदं तंत् ॥ २ ॥ आद्यायेति । आदौ भवाय अत एव अशेषकर्त्रे सर्वकारणाय प्रतिनिमि- षनवीनाय उपासकानां नित्यनूतनाय विभूतेः श्रियः मर्त्रे | प्रेमलक्षणभक्तियुक्त आ त्मा मनो यस्य सः । यस्तथाभूतः उक्तरूपाय विष्णवे यज्ञाचनादौ हविरादीनि प्रदिशति, यो वा महतो विष्णोः महत् पूजनीयं कृष्णाद्यं जन्म अवतारं वर्णयेत्, सोऽयं भक्त एवेह यथेष्टसुखानुभवेन प्रीतः यशोभिः पूर्ण अन्ते शरीरपाते त्वरि- तं जन्मान्तरविलम्बमन्तरेण तत् पदं वैकुण्ठलोकम् अभिसरेत् प्राप्नुयाद् - नान्यः ॥ यत एवम्, अतस्तमेव स्तुवीध्वमित्याह हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीला कथाभिः । 'ते' क. ग. पाठः• ,