पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• दशकम् -- २] भगवद्भूपवर्णनम् । परार्ष्यानि रत्नानि येषु, तैरङ्गुलीयै(आ) किमान श्रीमता शोभमानेनाजानु- लम्बिना पीवरेण बाहुचतुप्केण सङ्गतानि गृह्णतानि गदाशङ्कारहाण यां सा तथा, ताम् । काञ्चनकाञ्चिलाञ्छितेति । काञ्चनकाञ्च्या उपरिविन्यस्तया ला ञ्छितं जातपरभाग स्वतः समुल्लसत्पीताम्वरमालम्बितुं परिधातुं शीलमस्या इति तथा, ताम् । विमलाम्बुजचुतिपदां प्रतिनवारुणसरोजवद् विराजमानपदयुगलाम् । भक्तानां हृदि सन्निविष्टा सती तेषामाध्यात्मिकायाति पीडां छिनत्तीत्यातिच्छित्, ताम् । काञ्चिद् ब्रह्मादिभिरज्यशक्यवर्णलगाया | तब मूर्तिमालम्बे आश्रयामि, ऊर्ध्वमुखीकृतोन्निद्रहृदयकमलकर्णिकायां न्यस्योपात्मह इत्यर्थः ॥ २ ॥ सम्प्रति भगवन्मूर्तेः सौभाग्यं वर्णयति- यत् त्रैलोक्यमहीयसोऽपि महित सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोsपि मधुरं माधुर्यधुर्यादपि । सौन्दयोंचरतोऽपि सुन्दरतरं प्याथर्य भुवने न कस्य कुतुत विष्णो ! विभो ! ॥ ३ ॥ यदिति । त्रैलोक्येऽस्मिन् जगति यद् महीयः अतिशवेन महत् पूजितम् उत्कृष्टं वस्तु, तस्मादपि महितम् अत्युत्कृष्टं यत् । यच त्रैलोक्ये मोहनं वस्तु, तस्मादप्यतिमोहन माह्लादकन् । यच्च कान्तिनिधानतः शोभापात्रीभूता बस्तुनोऽपि कान्तमतिशोभनं सकलेन्द्रियाकर्षणसिौषधम् । यच्च माधुर्यधुर्याद् माधुर्यकार्यस मर्थाद् वस्तुनोऽपि मधुरमतिमाधुर्ययुक्तं सन्तापशान्तिकरम् | यच्च सौन्दर्येणोत्तरमु- त्कृष्टंमतिसुन्दरं च यद्वस्तु तस्मादपि सुन्दरतरम् | यच्चाश्चर्यम् अद्भुतरसालम्बन भूतं वस्तु, तस्मादप्याश्चर्यतरं । हे विभो ! संसारार्णवोचारणसमर्थ | हे विष्णो: तादृशं त्वद्रूपं भुवने कस्य कुतुकं न पुष्णाति, बद्धमुक्तमुमुक्षुजनानाम- व्यतिशयेन श्रवणस्मरणाद्यौत्सुक्यं ददात्येवेत्यर्थः ॥ ३ ॥ तत्ताहमधुरात्मकं तव वपुः सम्माप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । तेनास्या वत कष्टमच्युत विभो ! त्वपमानोज्ञक- प्रेमस्थैर्यमयादचापलवलाचापल्यवादभूत् ॥ ४ ॥ १. 'उच्या ला' ख. पाठः २. ति। उपरि विन्यस्तया काञ्चनमव्या काञ्च्या ला' क.पाठः, ३. 'घंव' ख. पाठ: ४. 'च यत् । हे' क. पाठ:.