पृष्ठम्:Mudrarakshasa.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
प्रथमोऽङ्कः।

[१]क्खसस्स णामंकिदेत्ति अज्जस्स पादमूलं पाविदा । ता एसो इमाए[२] आअमो । (क)

चाणक्यः‌ - भद्र, श्रुतम् । अपसर । न[३] चिरादस्य परिश्रमस्यानुरूयं फलमधिगमिष्य[४]सि ।

चरः जं अज्जो आणवेदित्ति[५] ।( निष्क्रान्तः ।) (ख)

चाणक्यः--शङ्गिरव शाङ्गिरव[६]

(प्रविश्य[७]।)

शिष्यः--आज्ञापय ।

चाणक्यः--वत्स, म[८]सीभाजनं पत्रं चोपानय ।


तस्माद्देऽस्य आगमः ।

( ख ) यदार्य आज्ञापयति ।


इत्थं नानार्थरससंभवा बीजसमुत्पत्तिर्निरूपिता । अतोऽयं मुखसंधिः साङ्गो व्याख्यातः । अतः परं प्रतिमुखसंधिः ‘लक्ष्यालक्ष्यस्य बीजस्य ञ्यक्तिः प्रतिमुखं मतम्' इति लक्षणात् । पूर्वं लक्ष्यस्य व्यक्तस्य मध्ये यमपटचरवृत्तान्तेनालक्षितचाणक्यनीतियोशबीजस्य पुनरत्र व्यतेरुझेदात् । यनबिन्दुसंबन्धस्य च सत्त्वात् । विन्दुयत्नौ चाग्रे वक्ष्येते-—‘विन्दुप्रयत्ननुगमादङ्गान्यस्य त्रयोदश । बिन्दुप्रयत्नानुगुण्येनास्य संधेस्रयोदशाङ्गानि प्रयोक्तव्यानि । ‘विलासः परिसर्पश्च विधूतं शमनर्मणी । नर्मद्युतिः प्रशमनं विरोधः पर्युपासनम् । वज्रं पुष्पं परिन्यासो वर्णसंहार इत्यपि ॥


  1. लख्ख° N. ‘संकियंति E; किदेति B. N; किदेदि P. The next word A. and M. read as अजस; पादिदा P.
  2. B. adds मुद्दाए,E has मुहिआए; N. om. ता just before and has मुद्र before आगमो; B. E. N. read आरामो; B. N. and E. add त्ति after that word.
  3. अ for न E . N.
  4. ° प्यइति E. N.
  5. °दीति P; दिइति N.
  6. Om in R. E•
  7. शिष्यः प्रविश्य R; B, and E. add उपाध्याय after this; °यतु K.
  8. भषी A. P. E; प for पा K.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८४&oldid=320701" इत्यस्माद् प्रतिप्राप्तम्