पृष्ठम्:Mudrarakshasa.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
मुद्राराक्षसे


लेखोऽयं [१]न ममेति नोत्तरमिदं मुद्रा मदीया यतः ।
 सौहार्दं शकटेन खण्डितमिति श्रद्धेयमेतत्कथम् ।
मौर्ये भूषणविक्रयं नरपतौ को नाम संभावये-
 त्तस्मात्संप्रतिपत्तिरेव हि वरं न [२]ग्राम्यमत्रोत्तरम् ॥ १८ ॥

 मलयकेतुः–[३]एतदार्यं पृच्छामि ॥

 राक्षसः--(सवाष्पम् ।) [४]कुमार, य आर्यस्तं पृच्छ । वयमिदानीमनार्याः संवृत्ताः ॥

 मलयकेतुः--

मौर्योऽसौ स्वामिपुत्रः परिचरणपरो मित्रपुत्रस्तवाहं
 दाता सोऽर्थस्य तुभ्यं स्वमतमनुगतस्त्वं [५]तु मह्यं ददासि ॥
[६]दास्यं सत्कारपूर्वं ननु सचिवपदं तत्र ते स्वाम्यमत्र
 स्वार्थे कमिन्समीहा पुनरधिकतरे त्वामनायें करोति ॥ १९ ॥

 राक्षसः—कुमार, ए[७]वमयुक्तव्याहारिणा निर्णयो दत्तः । भवतु त [८]व को दोषः । (“मौर्योऽसौ स्वामिपुत्र' (५।१९) इति युष्मदस्मदो- यत्ययेन पठति ।)


 लेखोऽयमिति । शकटदासेन सौहार्दं परित्यज्येदं लिखितमिति ग्राम्ये परिहारे उक्ते कः श्रद्दध्यादित्यर्थः ॥ १८ ॥

 एवं मौर्यसेनातोऽप्यतिशयिते मयि तव स्वातंत्र्ये स्थिते इतोऽप्यधिकतरं कं स्वार्थमवलम्ब्यैवमनाय जातोऽसीति निष्ठुर उपालम्भः ॥ १९ ॥


  1. मम नेति. R, M.
  2. ग्राह्यम° R. M.
  3. एतदार्थ A. P.
  4. B. N om. सबाष्पम् । कुमार.
  5. मतभृततनुत्वं च P, A. has च for तु
  6. दार्ढ्यं appears to be given as a variant in R; निः for ते P.
  7. B. H. read °मभियुक्तव्यवहा; E. agrees reading नि for भि; N. has एवं प्रष्ट (?) व्यवहा; B. adds भवतैव मे before निर्णयो; NG. मे भवतैव; E. एव
  8. R. om. तवः; B. N. instead of भव...षः read कुतः । मैर्योसौ स्वामिपुत्र इति युष्मदस्मदोर्व्यत्ययेन पठति; G.agrees but om. युष्म...येन; E. substitutes तदेव for it.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४५&oldid=327753" इत्यस्माद् प्रतिप्राप्तम्