पृष्ठम्:Mudrarakshasa.pdf/२४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
पञ्चमोऽङ्कः

मलयकेतुः--(सबाष्पम् ।) हा तात् ॥

एतानि तानि तव भूषणवल्लभस्य
गात्रोचितानि कुलभूषण भूषणानि ।
यैः शोभितोऽसि मुखचन्द्रकृतावभासो
नक्षत्रवानिव शरत्समयप्रदोषः ॥ १६ ॥

राक्षसः-( स्वगतम् ।) कथं पर्वतेश्वरेण धृतपूर्वाणीत्याह । व्यक्तमेवास्य भूषणानि । (प्रकाशम् ।) एतान्यपि चाणक्यप्रयुक्तेन वणिग्जनेनामासु विक्रीतानि । ।

मलयकेतुः-आर्य, तातेन धृतपूर्वाणां विशेषतश्चन्द्रगुप्तहस्तगतानां वणिग्विंक्रय इति न युज्यते । अथ वा युज्यत एवैतत् । कुतः। <poem> चन्द्रगुप्तस्य विक्रेतुरधिकं लाभमिच्छतः । । कल्पिता१० मूल्यमेतेषां क्रूरेण भवता वयम् ॥ १७ ॥

राक्षसः-(स्वैगतम् ।) अहो सुश्लिष्टोऽभूच्छत्रुग्रयोगः । कुतः ।


एतानीति । वल्लभानि प्रियाणि भूषणानि यस्येति बहुव्रीहिः । शेषं स्पष्टम् ॥ १६ ॥


१ वल्लभभूषणस्य A.. P. E.; गुणवल्लभ वल्लभानि H. २ भूषितानि. R. ३°तोभि- मुख° G.; कृताभ्रभासो N. ४ समये A. P. E. ५ आत्मग° B.; तत्कथम्. G.; B. N, R. M. read °श्वर; B. E. N. om. व्य...णानि. ६ . R. G. om. प्र... एतान्यपि; E.. om. प्रकाशम् and reads सुव्यक्तमेतानि शा; 3. N. om. व्य... नि and read प्र...व्यक्तमेतान्यपि तेन चा; M. adds एव after प्रयुक्तेन and E. reads वणिच्यञ्जनेन; प्रकाशम् om. & व्यक्तं before एतानि, H. ७ G. E. adds आभरणानाम्; B. N. आभरणविशेषाणाम्; P. has चाणक्य for चन्द्रगुप्त further on, ८ °णिग्भ्यः क्रयाधिगम इति. B. E. N.; °क्रयाधिगत इति (?) M.; °क्रेयाधि- गतमित R; B E. N. add एतत् after the first युज्यते and B. N. om, एतत्कुतः at the end of the Sentence, R. G. R. om. कुतः; क्रयादधिगमः H ९°च्छता E. १० °ल्पितम् G. N. ११ A. E. B. N. read आत्मग; R. M. on, अहो. For* शत्रु B. N. read एष.; G. om. it.; E, reads °ष्टोयं भूपण- प्रयोगः; R. °भूच्छत्रुयोगः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४४&oldid=206953" इत्यस्माद् पुनः प्राप्तिः