भागुरायणः-- कि[१]मन्यत् । चाणक्यादपकृष्टस्य चन्द्रगुप्तस्योद्धरणान्न किंचित्कार्यमवश्यं पश्यति ।
राक्षसः-भद्र, ह्रु[२]ताधिकारः क्क सांप्रतमसौ बहुः।
करभकः -तहिं ए[३]व्व पाडलिउत्ते अहिवसदि । (क)
राक्षसः-(सावे[४]गम् ।) भद्र, तत्रैव प्रतिवसति । तपोवनं न गतः प्रतिज्ञां वा पु[५]नर्न समारूढवान् ।
करभकः —[६]अमच, तपोवणं गच्छदिति सुणीअदी। (ख )
राक्षसः-श[७]कटदास, नेदमुपपद्यते । पश्य ।
(क) तस्मिन्नेव पाटलिपुत्रे अधिवसति ।
(ख) अमात्य, तपोवनं गच्छतीति क्ष्रूथते ।
चाणक्यादिति । सचिवायत्तसिद्धिः सचिवावियोगे हस्ततलगतः सुखेन जेयो भविष्यतीति राक्षसस्य निष्कपटोऽभिप्रायो भागुरायणेनान्यथा बोध्यते । चन्द्रगुप्तस्योद्धरणादुन्मूलनान्न किंचित्कार्यमवश्यं पश्यति नास्यात्यन्तिकाभीष्टसिद्धिः । हस्ततलकरणाद्वशीकरणातु स्वस्य साचि व्यप्राप्त्या चन्दनदासादीनामपन्निवृत्तिरात्यन्तिकी स्वार्थसिद्धिरित्यस्याभिप्राय इत्यर्थः ।
सावेगमिति । तत्रैवावस्थाने मौयो॔न्मूलनप्रतिज्ञाया अकरणे वा कदाचित्पुनः संदधीतेत्यावेगः।
- ↑ G. has कुमार before this. G.reads °गुप्तस्योद्धरणदसौ किंचित्; B.N.read ॰गुप्तस्योद्धरणेऽसौ कार्यमवश्यमवगच्छति ; E.गुप्तस्योद्धरणे ननु सौकर्यमवपश्यति; H. सैकर्यमवश्यं पश्यति.
- ↑ E.has अथ before this, G. has क्क before this. B. N. have it after सांप्रतम्; G.R.M. om. असौ
- ↑ जेष्व B. N.; जेब्व G. य्येव 5.; एव P. For पाडलि° A, P. G. read पाटलि and for उत्ते B. N. read पुत्ते. For अहिवसदि B. N. read पडिव°, E. परिवसति,G. अहिवसति.
- ↑ Om. M. R; after भद् E. reads किम्; न before तपो° B.E. N.
- ↑ P. om. पुनः; A. om. it and न ( but has a mark to show something to be inserted ); न before पुनः in B. E. N.
- ↑ अब्ज़ G. For तपो° R. G. have तवो,° E. तओ॰'; B. N. read शामिस्सदि° for गच्छदि;° M.गच्छई.
- ↑ सावेगम् before this B, N. H.; G. om इदम् in नेदम्; A. P. have एतत् for it.