पृष्ठम्:Mudrarakshasa.pdf/१७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१८०

                              मुद्राराक्षसे
  चाणक्यः-( विहस्य ।) ऐतत्कृतं राक्षसेन । वृषल, मया पुन-

ज्ञातम् नन्दमिव भवन्तमुद्धृत्य भवानिव भूतले मलयकेतू राजाधिरा- जपदे नियोजित इति ।

  राजा--अन्येनैवेदमनुष्ठितं किमत्रार्यस्य ।
  चाणक्यः--हे मत्सरिन,

आरुह्यरूढकोपस्फुरणविषमितीग्राङ्गुलीमुक्तचूडां लोकप्रत्यक्षमुग्रां सकलरिपुकुलोत्साददीर्घां प्रतिज्ञाम् । केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते नन्दाः पयोर्यभूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २७ ॥

यणप्रभृतिषु स्वेषु वर्णेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारि- तवन्त इत्यहो मतिमानतिशूर्ः साहसी महात्मा राक्षस इति ॥ २६ ॥

  विहस्येत्यादि । इदं राक्षसनीतिविभ वाधिक्षेपार्थं सोत्प्रासवचनं स्व-

शक्तिप्रशंसनं व्यवसायः। नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् ।

  अन्येनैवेमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्देवः ।
  हे मत्सरिन्निति। मत्सरः परोत्कर्षासहनम् ।

 आरुह्यारूढेति । प्रव्रुद्धकोपावेशेन विषमिताभिर्विसंष्टुलं प्रचलिता-

भिरग्नाङ्गुलीभिरङ्गुल्यगैर्मुक्चूडा शिखा यस्याम् । सकलानां रिपू-

१ वृषल before this B.E.N.G. Before वृषल further om B.E.N. have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (E. om अथ किम् ) G om: वृषल and inserts न after पुनः further on. २ मुत्क्र्त्य for मुद्धृत्य E.; E, has पदम् and om. final इति• ३ G. N. (s) read योजितः for नियो'; A. P. E. read तुरधिराज्यपदे; B. N. (r) तुरधिराज्यमारोपितः read . ४ अनेनै° A; B.N. read अलमुपालभ्य आर्य दैवेनेदम् &c., M. after कि-स्य adds इयं गुरुरस्म्रुति:; R. इयं गुरुतिरस्कृतिः ५ अहो M. R. ६ For विषमिता° M. reads मिवकरा°; °च्छे° for ‘त्सा° B. E. N. ; °त्से° A, ८ सूरा fox भूताः G .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७३&oldid=161228" इत्यस्माद् पुनः प्राप्तिः