पृष्ठम्:Mudrarakshasa.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
तृतीयोऽङ्कः।

अपि च ।
गृध्रै[१]राबद्धचक्रं वियति विचलितैर्दीर्घनिष्कम्पपक्षै-
 धूमैर्ध्वर्स्तार्कभासां सधनमिव दिशां मण्डलं द[२]र्शयन्तः। नन्दै[३]रानन्दयन्तः पितृवननिलयान्प्राणिनः पश्य चैता-
 न्निर्वान्यद्यापि [४]नैते स्त्रुतबहलवसावाहिनो हव्यवाहा: ॥ २८ ॥

 राजा--अन्येनैवेदमनुष्ठितम् ।

 चाणक्यः --आ:[५], केन ।


णामुत्सादनाय कालविलम्बाप्रतिज्ञाया दीर्घत्वमीदृशीमुग्रां प्रतिज्ञामारुह्य कृत्वा केनान्येन नन्दा: पर्यायभूता एकस्यां तस्यां दामनिबद्धाः पशव इव क्रमेण हता इत्यन्वयः । पश्यतो राक्षसस्य पश्यन्तं राक्षसमनादृत्येत्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी ॥ २७ ॥

 गृध्रैरिति । वियति आबद्धचक्र्ं विरचितमण्डलं यथा तथा विचलितै दीर्घा निःकम्पाः पक्षा येषां तैर्गुध्रैरेव धूमैरिति व्यस्तरूपकम् । चिताग्रीनां ज्वलदङ्गमात्रशेषतया सहजधूमाभावात् गृध्रा एव धूमत्वेन निरूपिताः । तैर्गुध्रर्धूमैर्ध्वस्तार्कभासां तिरोहितसूर्यतेजसां दिशां मण्डलं सघनमिव मेघमण्डलप्रच्छादितमिवेत्युत्प्रेक्षा । दर्शयन्तः बहलवसावशेषेर्नन्दै: श्मशाननिलयान्प्रेतवृकादीन् एतान्प्राणिनः प्रीणयन्तः एते परितः श्मशानेषु दृश्यमाना हव्यवाहा अद्यापि न निर्वान्ति न शाम्यन्ति । पश्य चेति वाक्यार्थः कर्म । अतिक्रान्तेऽपि विषये रोषावेशवशादेतानेत इति च बुद्धौ प्रत्यक्षीकृत्य निर्देशः । नन्दकुलनिर्दहनक्रोधोऽद्यापि न शान्त इत्यर्थः । अयं वधरूपो विद्रवः ॥ २८ ॥

 आ: केनेति । इयं तर्जनरूपा द्युति: ।


  1. °रब्ध for बद्ध. M.; विचरितैः for विचलितैः M.; विचलितोद्दी° A; चलतया G.; चलनया B.N.; वलनया H.
  2. तैर्धयन्तः M.
  3. For नन्दैरा° B. E. N. G.H. have नन्दानाम्: M. has °नाय° for °नन्द'; चैते for चैतान् G; चैत्याः H.
  4. तेन P.; गन्धिनो for वाहिनो H. From प्रतिज्ञाम् in the second line of the preceding stanza down to this all is wanting in E; बहुल for
    बहल M. R.
  5. om. in B. E. N. G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७४&oldid=322695" इत्यस्माद् प्रतिप्राप्तम्