उपोद्घातः ।
युवतिसमेतस्य कस्यापि कापालिकस्य मधुपानविभ्रमः, कुक्कुर पहृतमात्मीयं कपालभाजनं केनचिन्मिथ्याचारेण शाक्यभिक्षुणा चोरितं मन्यमानस्य तेन सह विवादः, विवादनिर्णयाय पाशुपतापशदाश्रयणम्, उन्मत्तसकाशादन्ते यदृच्छया कपाललाभ इत्येतावद् वस्तु हास्यरसानुगुणं निपुणरमणीयमिह प्रहसने वर्णितम् ।
-
अस्य प्रणेता पत्रभूपालकुलजन्मा सिंहविष्णुवर्यसूनुर्महेन्द्रविक्रम- बर्मेति स्थापनायां प्रतिपादितम् । कोऽसौ महेन्द्रविक्रमवर्मेति वीक्षायां, पवेषु भूपतिषु वृद्धतरस्य सिंहविष्णुवर्मणः पुत्रो बहुविरुदशाली यो महे- न्द्रवर्मा नाम दक्षिणभारतप्राचीन लेखेभ्योऽवगतः स एवायमिति निश्चयः । तथाहि – एपिग्राफियाइन्दिकायां महेन्द्रवाडिशिलालेखे मुरारिगृहनिर्मा पयिता गुणभरो नामाभिहितः । तस्यामेव ( बल्ले) शिलालेखे गुणभर एव 'महेन्द्र पोतरयन्' इति महेन्द्रसंज्ञया निर्दिष्टः । त्रिशिरः पुरशिलालेखयोः द्वियोः एकत्र गुणभर एव पहवो राजेति, अन्यत्र गुणभरो राजा शत्रुमल्ल इति च कीर्तितः । भारतवर्षपुराणवस्तुविचाराध्यक्षस्य १९०३-०४ तमं - वर्षवृत्तनिवेदनायां (p. 270. ff.) प्रकाशिते त्रिशिरः पुरशिलालेख विषये स्वनिबन्धे श्रीवेङ्कय्यमहाशयो (एम्. ए.) गुणभरस्यैव महेन्द्रविक्रम इति मत्तविलास इति अवनिभाजनम् इति चाख्यान्तराणि वचन शिला- लेखे दृष्टान्याह । एकव्यक्तिनिवेशिनीषु आसु गुणभराद्याख्यासु औचित्याद् महेन्द्रविक्रम इति सांस्कारिकी संज्ञा, गुणभर इत्येवमादीनि तु बिरुदानि; महेन्द्र इति च नामैकदेशग्रहणामिति शक्यमवसातुम् । नूनं, बिरुदेष्वेतेषु
See page 152. Vol. 4. + Sere South Indian Inscriptions Vol. L. pp. 200-30,
अन्यान्यपि तु बिरुदानि अस्यावगतानि पुरुषोत्तम, सत्यसन्ध, ललिताङ्कुर, पकाप्पिडुगु, चट्टकारि, इत्यादीनि । तत्र चहकारीति चैत्यकारयिर्थकं शिलोच्चयेषु देवायत - ननिर्माणस्य दक्षिणभारते महेन्द्रवमपक्रमतां सूचयतीति भारतमण्डलप्राचीन लेखाधिकृतः श्रीकृष्णशास्त्र महापाय आह ।