५०
तल्लेखान्तरे निवेदयिष्यामि । तत्र तावद्वोधायनगतं किञ्चिद्विचारयामः ।
बोधायनवृत्तिकार एव शङ्करभाष्यकृता खण्डनाय परामृष्टो वृत्तिकार
इति थीबोनाम्ना केनचित्पाश्चात्यसंशोधकेन कतिपयेभ्यो वर्षेभ्यः प्राकृते
स्वीये शाङ्कर भाष्यस्यांग्लपरिवर्तने भूमिकायामुपक्षिप्तम् । तदा
प्रभृति तमनुसृत्य अस्मद्देशीया अपीदानीं केचिद्भणन्ति श्री भाष्य -
समुदाहृतबोधायन एव शङ्करभाष्यपरामृष्टो वृत्तिकार इति । पण्डितवराः
श्रीनिवासाचार्याश्चैतमेवाभिप्रायं अनुवदन्ति साम्प्रतलेखने । अधिका-
वापं च कुर्वन्ति स एव उपवर्षः कृतकोट्यपरनामा इति ॥
अत्र त्रेधा विभज्य विचारणीयमस्ति – (१) शङ्करभाष्ये किमेक
एव यः कश्चन वृत्तिकारः परामृष्टः, उतानेके इति । (२) बोधायन-
वृत्तिकारः तत्र भाष्ये यत्रकुत्रापि खण्डनाय मण्डनाय वा परामृष्टो न
वेति । (३) बोधायन एव उपवर्ष इत्यत्र प्रमाणं अस्ति वा नवेति ।
प्रथमं तावत् शाङ्करभाष्ये एक एव वृत्तिकारः परामृष्ट इति वक्तुं न
पार्यते । प्रत्युत विद्यन्ते स्म बहवो वृत्तिकारा इत्यत्र गमकमस्ति ।
यथा चैतत्तथा किञ्चिदुदाह्रियते - ब्रह्मजिज्ञासेत्यत्र 'ब्रह्मणो जिज्ञासा'
इति विग्रहवाक्यं प्रदर्शितं भाष्ये । तत्रानन्दगिरिणोक्तं 'वृत्तिकारा-
भीष्टचतुर्थासमासनिरासेन षष्ठीसमासमाह ' इति । तदुपरि ‘ब्रह्मण
इति कर्मणि षष्ठी, न शेषे' इति भाष्यम् । तत्र चानन्दगिरिर्जगाद-
‘वृत्त्यन्तरे शेषे षष्ठी व्याख्याता तत्राह' इति । अत्र 'वृत्त्यन्तरे'
इति वचनस्वारस्यात् चतुर्थीसमासपरिगृहीतुम्तावद्वत्तिकारोऽन्यः शेष-
षष्ठीपरिगृहीतास्तीति विस्पष्टं विज्ञायते । भाष्ये एव उपासनाविधि-
वादग्रस यानवादप्रपञ्चविल्यवादादीनां अद्वैतवादानामुदाहृत्य खण्ड-
नादप्येष एवाभिप्रायो दृढीभवति वृत्तिकारा बहवश्शङ्करभाष्यसमुदाहृता
इति । अपि च पञ्चपादिकादिषु ग्रन्थेष्वनेकेषां वृत्तिकृतां वचनान्यपि
,
श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/९
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति