पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
श्रीमन्महाराज संस्कृत महापाठशालापत्रिका.
प्रतिमासत्रयं प्रकटक्रियमाणा.
66
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः "
सम्पुटम् ६ ]
एप्रिल् - १९३०
( ईशोपनिषत् )
[ सञ्चिका २
बोधायनवृत्तिकारगतः सन्देहः
पाठशालापत्रिकायाः पञ्चमसम्पुटस्य तृतीयचतुर्थसञ्चिकयोः
विशिष्टाद्वैतमधिकृत्य महामहोपाध्यायैः पण्डितरत्नं लक्ष्मपुरं श्रीनि-
वासाचार्यैः प्रकाशितं लेखं दृष्ट्वा तत्र बोधायनटङ्कद्र मिडाख्यपूर्वाचार्य -
त्रयविषये संञ्जातसन्देहोऽहं तत्र ममाभिप्रायं किञ्चिदुपन्यसितुमि-
च्छामि । आशासे च यद्वहुश्रुताः श्रीमदाचार्याः मम सन्देहान्
दूरीकुर्युरिति ॥
-
चतुर्थसंञ्चिकायाः १७७ तमे पृष्ठे एवं लिखितं दृश्यते – वृत्तिः -
बोधायनाचार्यः–(उपवर्ष इति नामान्तरं ) - कृतकोटि : ' ' वाक्यं – ब्रह्म-
नन्दी टङ्काचार्यः छान्दोग्यव्याख्यानम्' 'भाष्यं वाक्यव्याख्या-द्रमिडा-
चार्य: ' इत्यादि तत्र वाक्यक | रद्रामिडभाष्यकारयोर्विषये यद्वक्तव्यं
,6