पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याससिद्धान्तमार्तांडविमर्शनम्
66
श्रुत्या मुक्तस्य ब्रह्मणा सादृश्यप्रतिपादनाच्च । न च तद्भिन्नमेव
सादृश्यं तत्र विवक्षितमिति वाच्यं परमपदस्य वैयर्थ्यापत्तेः । मुक्तस्य
ब्रह्मसाम्याभ्युपगमे " न तत्समश्चाभ्यधिकश्च दृश्यते " " न तत्समोस्ति
अभ्यधिकः कुतोऽन्यः " इत्यादिश्रुतिविरोधः । मुक्तस्य भगवद्भक्तो-
ज्झितं भक्तयतिशयेन अभ्यवहरतः (द्वितीयपरिच्छेदे पृ.२१५) यथा-
नुरूपां सपर्यां कुर्वतः शरीरमस्ति वा ? न वा ? आद्ये, सुखवत्
दुखस्याप्यापत्ते: “आत्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै
सशरीरस्य सतः प्रियाप्रिययोरपहतिरम्ति " इति श्रुतिभ्यां। द्वितीये
शरीरेन्द्रियादिशून्यस्य चर्वणनिगरणाद्यसम्भवेन भवन्मुक्तेः अपुरुषार्थत्व-
प्रसङ्गात् । वेदव्यासस्य सिद्धान्त इत्यपि न समीचीनम् । व्यासा-
भिप्रायस्य पूर्वमेव उपबृह्मणादिना निर्णीतत्वात्, “ खयं नष्टः परा-
न्नाशयती " ति न्यायकबळितत्वाच्च । किं च तत्पुरुषीयपुरुषान्तरीय-
वचनयोर्मध्ये तत्पुरुषीयवचस्य प्राबल्यमिति भवत्कल्पितन्यायेन व्यास-
कृतकूर्मपुराणात् तत्कृतब्रह्मसूत्रतात्पर्यं विशदं भवति तथाहि कूर्म-
पुराणे ईश्वरगीतायां द्वितीयाध्याये -
J
-
यद्यात्मा मलिनोऽखच्छो विकारी स्यात्स्वभावतः ।
न हि तस्य भवेन्मुक्तिः जन्मान्तरशतैरपि ॥
इत्युक्त लोकद्वयानन्तरं -
-
• वदन्ति वेदविद्वांसस्साक्षिणं तमसः परं ।
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितं ।।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।
एकस्संभिद्यते शक्तया मायया सर्वभावतः ||
तस्मादद्वैतमेवाहुः मुनयः परमार्थतः ।
4