पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२
श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिकां
H
66
वसरे व्यासतात्पर्यं प्रकटयन्निवोदितः कश्चित् व्याससिद्धान्तमार्ताण्डः
श्रियः पतिर्नारायणः परं ब्रह्म, अप्राकृतदेशविशेषे तत्सायुज्यप्राप्तिरेव
मुक्तिरिति, शारीरकमीमांसाप्रणेतुः भगवतो वेदव्यासस्य सिद्धान्त
इति वक्ति । अत्र पृष्टोऽयं व्याचष्टाम् नारायणशब्दस्य (३ परिच्छेदे -
९ पृष्ठे ) अनुशासनविरहं वदता ग्रन्थेन ब्रह्मशब्दस्य श्रीपतौ नारायणे
किमनुशासनमपूर्वमुक्तम् येन श्रियः पतिः नारायणः परं ब्रह्मेति उद्ध.
प्येत । किञ्च ब्रह्मव्यतिरिक्तायाः नित्यायाः श्रियः अभ्युपगमे विष्णोर्वस्तु-
परिच्छेदापात्त्या तद्वा एतद्ब्रह्म अद्वयं बृहत्वात्" इति नृसिंह-
तापनीयश्रुत्युक्तं निरतिशयबृहत्वप्रयोज्यं अद्वितीयत्वं कथं तव नाराय-
णस्य सिध्येत् ? अथ अद्वितीयत्वं सजातीयद्वितीयरहितत्वं श्रीश्च
विजातीयेति चेत् न, विकल्पासहत्वात् । किं साजात्यं लक्ष्मीपतित्वेन ?
उत जगत्कारणत्वादिना, नाद्यः लक्ष्मीपतित्वेन सजातीयस्यान्यस्य
कस्य चित्सत्वे निषेधायोगात् असत्वे कथं अप्रसक्तं प्रतिषेधति
श्रुतिः ? नान्त्यः पूर्वोक्तदोषतादवस्थ्यात् । अप्राकृतदेशविशेषे माना-
भावात् तथा हि "आत्मा वा इदमग्र आसीत् " "एको ह वै
नारायणः इत्यादि श्रुतिभिः प्रलयकाले कार्यस्य सूक्ष्मावस्थां प्रति-
पादयिन्तीभिः “स इमान्लोकानसृजत " " सोऽकामयत " " एतस्मा-
दात्मनः सर्वे लोकाः सर्वे वेदाः ” इत्यादिश्रुतिभिः सर्वभूतत्व
सर्वलोकत्वाद्यवच्छेदेन ब्रह्मोपादानकत्वावगमात् । स्वोपादानकत्वस्य प्राकृ-
तत्वविनाशित्वव्याप्तत्वात् ब्रह्मव्यतिरिक्तस्य अप्राकृतस्य सद्भावे
प्रमाणाभावः । यानि पुराणवचनानि उपन्यस्यन्ते तृतीयपरिच्छेदे तानि
सयुक्तिकप्रत्यक्षश्रुतिविरोधे विरोधाधिकरणन्यायेन अप्रमाणान्येव ।
सायुज्यरूपा मुक्तिः परब्रह्मसमानभोगत्वरूपमिति (द्वितीयपरिच्छेदे
२१३ पृष्ठे) उक्तत्वेन मुक्तस्य लक्ष्मीपतित्वापत्तेः “ परं साम्यमुपैती " ति
"
66
66