पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशाला पत्रिका सुखबोधाय सम्यगुपन्यस्ता वर्तन्ते । एतेषां विषयाणां विज्ञानं प्रौढ- वेदान्तविज्ञानाय बाढं सहकारि भवति । अतस्तेऽपि विषयास्संस्कृत- पत्रिकायां बाढं प्रकाशार्हा भवन्ति ।। एतादृशेनाधुनिक विज्ञानेन द्विगुणितप्रमाणबलाः पण्डिता अज्ञानां सन्देहं छेत्तुं समर्था भवन्ति । एतेन च भरतखण्डीयानां बहोः काला- • द्रक्षितानां प्राचीनसमयाचाराणां मध्ये ऐहिकामुष्मिकोभयोपकारका बहवस्सदाचारा रक्षितास्स्युः ॥ यद्यपि “यच्छक्तिमत्, तत् स्थितिमत्" इति सिद्धान्तानुरों- धेन शक्तस्य कदाऽपि नाशो न संभवति । शक्तयभावादेव वस्तुनः समयाचारस्य मताभिप्रायस्य वा हासो नाशो वा दुर्निवारः । यथा दृढतन्तुः पटो यावत्तन्तुदा वर्तते तावदुपगतान्यपि नाशकारणान्यभि- भवति, यथाच देहोऽपि यावद्रक्तबलं तावद्व्याधीनभिभूय जीवति, तथैव समयाचारोऽपि यावद्वहुभिर्जेनैराद्रियते तावदेकदेशिनां दूषणतिरस्कारा- नभिभूयानुष्ठानपथे वर्तते । मताभिप्रायोऽपि यावद्वहुजनैरनुगृहीतः तावत्कतिपयानां तमोऽभिभूतानां कुत्सनैरनभिभूतो विजयते । तथाहि बौद्धमतं न केवलं नास्तिकमतमिति तिरस्कृतम्, अपितु बौद्धैरैहिकं सुखं सर्वथा त्याज्यम्, कामक्रोधलोभमोहमदमात्सर्याणि सर्वथा जेतव्या- नीति यद्भूयोभूयः प्रोद्घोषितं तत एव तन्मतं बहुभ्यो जनेभ्यो नारो- चत । अतस्तन्मतस्य शक्तिः कुण्ठिताऽभूत् । शक्तिनाशाच तन्मतं खत एव नष्टम् । तदित्थं वस्तूनां समयाचाराणां मताभिप्रायाणां हासो नाशो वा तेषां शक्तिक्षयमनुसरति । आस्तिकानामार्यदर्शनानां बहो: कालात्परीक्षिता स्वाभाविकी शक्तिर्दृढैवास्तीति गम्यते । तानि . हि प्राचीनदर्शनानि सर्वानप्युपलवानभिभूयाद्यापि स्थिराणि वर्तन्ते । कुमतानि शक्तिविधुराणि कञ्चिदेव कालं स्थित्वा नष्टान्यभूवन् । अतः 1 प्रस्तावना na स्वतश्शक्ता नामार्षदर्शनाचाराणां विषये यानि कुत्सनानि कुचोद्यानि च परै- राविष्कृतानि तेषां चर्चया न किमपि प्रयोजनं दृश्यते, इति केचिद्वदन्ति ॥ तथाऽपि यथा क्रिमयो घुणा वा साराण्यपि दारूणि जग्ध्वा नाशयन्ति तथा साङ्कास्समयाचारा मताभिप्रायाश्च कुमतीनां कुत्सनकुचो- द्यैर्नाश्येरन्निति भीतिर्जागर्ति । न हि शक्तं स्थार्याति निश्चयेन सारवन्ति वस्तून्युपेक्ष्यन्ते । उपेक्षा हि शत्रूणां शक्तचुपचयायावकाशं ददाति । शत्रुशक्तयुपचयेन सारवन्ति वस्तून्यभिभूतानि नाश्यन्ते ॥ एत्महशचर्चावकाशाय इयं श्रीमन्महाशूरमहाराजसंस्कृतमहापाठ- शालापत्रिका त्रैमासिकी इदानीं प्रारभ्यते । सुकृतप्रशंसिनः संस्कृत- पण्डिताः संस्कृतविद्यार्थिनश्च गुणैकपक्षपातिनो भूत्वाऽस्याः पत्रिकाया वार्षिकं मूल्यमग्रत एव दत्त्वा पत्रिकाप्रकाश माचन्द्र तारस्थायिनं कुर्युरिति एतत्पत्रिकाप्रकाशाधिकारे नियुक्ता विद्वन्मण्डली प्रार्थयते ॥ इदानीमाङ्ग्लेयभाषासु प्रकाश्यमानास्सर्वा अपि पत्रिकाः पत्रि- कापाठकजनैर्दत्तेन वार्षिकमूल्यसमुदयेनैव सततप्रचाराः स्थिरास्सन्ति, तथैव संस्कृतज्ञास्सर्वेऽपि भरतखण्डीया महाजनाः पत्रिकामेनां वार्षिकमू- ल्यदानेन ततोऽप्यधिकसाहाय्यद्रव्यदानेन वा उपकुर्युरिति प्रार्थनाऽत्र क्रियते इति शम् ॥ आर्. शामशास्त्री. शास्त्रं हि राजेव जानुजिघृक्षया शास्ति शास्त्रार्थम् । देश- भेदेन राजान इव शास्त्राण्यपि भिद्यन्ते । स्वप्रजा इव परप्रजा अपि सौराज्येन राजानो यथा रञ्जयन्त्याकर्षन्ति च तथैव शास्त्राण्यपि परिग्रहातिशयेन परमतावलम्बिनोऽप्यावर्जयन्ति । पुरा जैना बौद्धाश्च 2 Digitised by Ajit Gargeshwari For Karnataka Samskrita University