पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृत महापाठशाला अद्यापि चानाविष्कृतंनयना एव बहवो निरन्तरं सुखाभासरता एव लक्ष्यन्ते । अतोऽनया परिषदा महतीं धर्मधुरां शिरसि पतितां विचिन्तयन्त्या न मन्दप्रयतनयाऽवस्थातव्यम् । अपितु तदनुष्ठेयं कर्म यत् सनातनधर्मावबोधनं नाम । अचिन्तनीयवैषम्यतया च जगच्चेतो- वृत्तेः निपुणेनाऽपि निरूपकेण हठादेव न धर्मावबोधनं सुकरमिति विचिन्तयाद्भः भारतीयधर्म महामण्डलसभापरिपोषकैः नोद्विजितव्यं हृद- यङ्गमेनाऽपि तत्त्वतो धर्मावेदनप्रयत्नेन देवाद्वैफल्यमापादितेन । असकृत् खलु जोघुष्यमाणं यत्किमपि हरत्येव हृदयं निरूपकाणामपि किमुत, धर्ममर्मवर्त्म || सनातनधर्मावबोधनकलाशालाश्च तत्रतंत्र प्रवर्तिता एद । ता इमा अन्याश्च प्रवर्तयिष्यमाणाः धर्मावबोधनकलाशालाः सन्तं जनानां सनातनधर्मतत्त्वावबोधनेन प्रतिष्ठापयन्तु शाश्वतीं निश्रेयसपरमसाधन- भूतां पद्धतिमार्याणामित्याशास्महे । इति। प्रमादबहुलेऽस्मिन् कलौ धर्मपरिरक्षणाय तत्रतत्र सभाः प्रवर्त्यन्ते जनानां च धर्मावबोधनप्रयतनं च क्रियत इति च महदिदं प्रमोदस्थानम् ॥ बहोः कालादविरतं धर्मप्लरिपालनपरायणैः कर्णाटभूपालमणिभिः परिरक्ष्यमाणेऽस्मिन् कर्णाटदशे भगवतोऽनुग्रहेण निर्मला एव धर्मास्सर्वे . प्रवर्तमाना विराजन्ते ॥ तदेनंदेव राज्यं निदर्शनीकृत्य परेऽपि धार्मिकं पन्थानमनुरु न्धानाः निरतिशयं श्रेय आसादयन्त्वित्यावेदनमेव मुख्यं कर्तव्यमभि- प्रेतीयं पत्रिका । FP TRU राजन्यमान्य श्रीकृष्णराजेन्द्र परिपालितम् । राज्यं निदर्शनाभूय राजतां धर्मसंपदे | . महीशूर राजकीय प्राच्य कोशागारपण्डितः. सो. नरसिंहाचार्यः.