पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० श्रीमन्महाराज | संस्कृत महापाठशाला श्री भारतीयाखिलधर्ममहामण्डलसभा. सभेयं कलकत्तानगर्यां मार्गशीर्षे मासि (१३-१२-२४) द्वाविंश- तितमी प्रावर्तत । तत्रच दरभङ्गासंस्थानाधिपतौ अध्यक्षे, कासिंबजार्दे शाधिपः कार्यदर्शी सभाध्यक्षाय स्वागतं निवेद्य स्वयं कंचिदुपन्यासमक- रोत् । तस्यायं सारांश:- समितिरियं सनातनधर्माणां स्वरूपविवरणं संभवत्तत्तत्कालुप्या- पनोदनं स्थिरीकरणं चान्तरेण नान्यत्कर्तव्यमस्तीत्यभिप्रैवीत्यतिरोहित ए॒वायमंशः । 1 " धर्म इति च महाददं बहुमतिपदं प्रसिद्धमार्यावर्तीयानाम् । तं च धर्मं अनादिकालं प्रवर्तमानं अनुपधिपरिग्रहजेजीयमानं वयं सना- तनमातिष्ठामहे । विपुलेऽस्मिन् भारतमण्डले धर्मैकधान्नि न खल्वतीवाश्चर्याय; यत् काचित्समितिः धर्ममर्मज्ञप्रवर्तिता प्रोत्साहयति धार्मिकानिति । यतः चिरपरिचितं भारतीयानां धर्मं लवशस्तेतेऽनुकुर्व तोऽपि विजयन्ते । धर्मश्च नाम लोकानां भावनया मनोवृत्तीनां समुचिताभिः प्रव- र्तनाभिरात्मस्वरूपातिशयसंपादकोऽर्थः । मनश्शुद्धिंदायी महोन्नातहेतुः जीवलोकावस्थितेर्हृदयङ्गमताबहश्च भवत्ययं धर्म आचर्यमाण इत्यत्र न कोऽपि विशयः । अखिलभारतीयश्रेयःपरंपरासाधनभूतं धर्म प्रवर्धयितुकामैरवश्यं सभेयं शाश्वतीं प्रतिष्ठामर्हति भारतमण्डले भारतीयानां वृन्दमनुप्रविष्टस्य च मे प्रार्थनां भाविनीं साधु तफलयेदियं सभेति दृढतरः प्रत्ययो मे वरीवर्ति । धर्माश्चायं सप्रमाण एवाचर्यमाणोऽसंख्यातात्कालादनुवर्तते । श्री भारतीयाखिलधर्ममहामण्डलसमा ३२ धर्माचरणमर्गश्च अनाक्षेपार्हे: जातिप्रभेदैर्यथाई व्यवस्थापितो विज- यते । भारतवर्षचिरनिवासिषु च आर्येषु यथादेशमावर्तमानो धमा यथाकालं च परिपोष्यमाणः शेवधिभूत आसीदार्याणाम् । याते चानेकास्मिन् वर्षसाहस्रे निरन्तरधर्माचरणलालसतासमु- पचितैकमत्यानां 'आर्याणां समुचितमैकमत्यमसहमान इव प्रावर्तयत कालः शौद्धोदनेरुपदेशान् । यैश्च तथातथा निर्मिन्नमानसाः विज- हुरेव चिरागतां व्यवस्थां उपाशिश्रियंश्च आपातमधुरान् कतिपयार्ष- धर्मच्छायासंमिश्रतया समफलानिव मन्यमाना नैरात्म्यनिरीश्वरादि- वादान् बहवो भारतीयाः । • बुद्धधर्मश्चायं तथातथा रात्रिंदिवं प्रचार्यमाणोऽपि नैवोन्मूल यितुमैष्ट भारतीयानां दृढपरिग्रहां धर्मपद्धतिम् । मन्वादिपरमर्पिपरम्परा- प्रवर्तितेषु स्मृतिपुराणेषु सविकासमुपबृंहयत्सु, वैदिकं पन्थानं तावदपि वा पराक्रान्तं बुद्धधर्मेरितीदमेव हेपयति वैदिकधर्माचरणपरायणानार्यान्। इयदपि वाऽवशिष्यत इत्येतदेव वा हर्षस्थानम् । इतइतश्च क्रमात्क्रमादपचीयमाना एव दृश्यन्ते सनातन- धर्माः । वाणिज्यगुडजिह्विकया च प्रचार्यमाणे आङ्ग्लसाम्राज्ये काम- प्यवस्थामनीयन्त । ‘‘ प्रायो ह्यपुरीचन्तितपरिपाकैराचर्यमाणं कर्म विनिपातयत्येव श्रे- यसः ” इति नीतेः सत्स्वपि बहुपूढाहरणेषु भारतया एवाभ्यर्हितमु - दाहरणम् ; यत् अनवधानपरिमुषितस्वकृत्यैः उपेक्षिततत्तद्भ्यर्हितसा- धनैः पुष्कुलधनैरपि नैव लभ्यते निरुद्वेगसुखास्वादः । तदेवंविधे विशसने प्रचलरति भरतमण्डले यथापुरं सनातनं धर्मं प्रचार्य परस्परहितैकरसहृदया भरतखण्डकुटुम्बिनो वयं कदाऽनुभवेम नि- रुद्वेगं सुखमिति मनोरथः चिराञ्चेतसि विपरिवर्तमानो लक्ष्यतेप्रायो बहूनाम् ॥ Digitised by Aiit Gardeshwari For Karnataka Samskrita University