१६ श्रीमन्महा राजसंस्कृतमहापाठशाला पत्रिका फलसंयोगवादः अथ फलज्ञानं प्रवर्तकमिति वादिनां न्यायविदां सिद्धान्तसंग्रहः - फलं प्रवर्तकमिति न्यायविन्मतमेव तत् । रागादेव प्रवृत्तिश्चेजन्मान्तरविनिश्चयः ॥ रागिणामेव जन्मेति वीतरागेति सूत्रितम् । । सुखे दुःखनिवृत्तौ वा पुंसां भवति कामना ॥ न पुनः व्योमपुष्पादि कश्चित्कामयते नरः । रहस्यं पुनरत्रेदं मीमांसकहृदि स्थितम् ॥ इष्टसाधनताबुद्धया प्रवर्तेत नरो यदि । रागात्साङ्गे प्रवृत्तिस्स्यान्निषिद्ध्येत ऋतौ वधः ॥ विधिनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति । शास्त्रमूला प्रवृत्तिश्चेत् अदोषाऽभ्युपगम्यते ॥ शास्त्रोत्थरागमूलाऽपि तादृक्कि न भविष्यति । भवत्यारोग्यसंपत्तिः भुञ्जनस्य हरीतकीम् ॥ तत्कामो भक्षयेच्चेति को विशेषः प्रवर्तने । जडो माणवकोऽप्येषः चपेटापातहानये ॥ मोदकाद्याप्तये वाऽपि करोति गुरुशासनम् । फलस्य वस्तुतस्तावत् प्राधान्यमवगम्यते ॥ न सचेताः क्रियां कांचित् अनुतिष्ठति निष्फलाम् । इति न्यायविदां पन्थाः लोकदृष्ट्या व्यवस्थितः ॥ लोके प्रवृत्तिस्स्वादेवं वेदे त्वेषा विलक्षणा । तदुपपादनम् फलसंयोगवादो यः जैमिन्यादेरसीप्सितः । शबरस्वामिवचसा यथावदवधार्यताम् ॥
- ननु च नैवात्र स्वर्गः फलं श्रूयते, स्वर्गकामपदेन तावत्पुरुषोऽभि-
धीयते यजेतेत्यनेनापि यागनिर्वृत्तिः । तयोर्वाक्येन संबन्धः । केनेदानीं । 1 न्यायमञ्जरीपु ३६१. 2 श-भा. ११-१-१. वेदार्थविचारे - निमित्तवादः फलमुच्यते । अनेनैव स्वर्गकामपदेनेत्याह । ननु पुरुषस्यैवायं वक्ता ? न खलु कश्चित् पुरुषः स्वर्गकामो नामास्ति । च यस्य स्वर्गे कामः, स स्वर्गकाम इति ? एतदेव न जानीमः कस्य स्वर्गे काम इति, य एव हि स्वर्गकामः स एवास्वर्गकामो भवतीति ॥ एवं तर्हि कालोपदेशोऽयं भवति, यदा स्वर्गकामः तदा यजेतेति ? । अत्रापि न कश्चित्कालविशेषोऽस्ति, यस्मिन्नियमेन स्वर्ग- कामस्स्यात्, सर्वेषु कालेषु सर्वे कामा अनियमेन उत्पद्यन्ते । तत्र न कश्चित् कालविशेषोऽनेन शक्यपदेष्टुम् ।। एवं तर्हि नैवायं पुरुषोपदेशः नापि कालोपदेशः । किंतु फल- कामो निमित्तं स्वर्गविषये कामे उत्पन्ने यजेतेति, यथा कपाले नष्टे यजेतेति । अस्य पक्षस्य सूत्रे परिहार उक्तः (६-२-९) “फलकामो निमित्तमिति चेत् न, नित्यत्वात् " नित्यान्यग्निहोत्रादीनि कर्माणि, तानि यदि निमित्ते विधीयन्ते तत्र नित्यत्वमेषां विहन्येत । तत्र नित्य- चोदना यावज्जीविकाद्या अपरुध्यन्ते । लिङ्गानि च " अप वा एष स्वर्गाच्चयवते, यो दर्शपूर्णमासयाजी सन् पौर्णमासीममावास्यां वाऽतिपा- दयेत्” इत्येवमादीनि । परिशेषात्पलसंयोग एवायम् ॥ ' अत्र न्यायरत्नमाला यत्तत्र भाष्यकोरण पुरुषपरत्वादिनिराक- रणं कृतं कामशब्दस्य तदिहासूत्रितमपि सूत्रितविचारोपोद्धातत्वेन कृत- मिति वेदितव्यम् । निमित्तपरत्वं तु " प्रयोगे पुरुषश्रुतेः " ६–२-९ इत्यत्र प्रसङ्गात्सूत्रकारेण निराकृतं इह भाष्यकारेण स्मारितम् । इदं च पुरुषपरत्वादिनिराकरणं स्वर्गकामाधिकरणस्योपोद्धातत्वात् तत्रैवास्माभि- रनागतप्रत्यवेक्षणेनं प्रदर्शितम् ॥ । १९३ पु. Digitised by Ajit Gargeshwari For Karnataka Samskrita University 3