पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका वेदार्थविचारे-निमितपादः १५ स एव नियोगवादः यजेतेत्यादिवाक्येषु विधिप्रत्ययेन कार्यमभिधीयते । कार्यत्वं च कृतिसाध्यत्वं, तदेवापूर्व, मानान्तरेणाप्रत तेिः । स एव नियोगः पुरुष प्रेरणात्मकत्वात्, यस्मिन्नर्थे प्रतीयमाने नियुक्तोऽहमत्रेति प्रतिपद्यते पुरुषः सोऽसावथ विधिरित्युच्यते । विधौ हि लिवादिप्रत्ययं स्मर न्ति स्मर्तारः पाणिनिप्रभृतयः ॥ तादृक्षनियोगलक्षणविधिप्रतिपत्तौ सत्यां आत्मन्याकूतस्समुपजा यते । तस्मिश्च सति शारीरी, भौतिकी वा व्यापारपरम्परा । सू चाकूतः आत्मधर्मः आत्मेव स्वसंवेद्यः न मानान्तरवेद्यः औदासीन्पप्रच्युतिर्वा योद्योग इति कीर्यते । आद्या प्रवृत्तिराकृतः चिकीर्षेत्यादिनामभाऊं ॥ तस्मालिङाद्यर्थः नियोगो वाक्यार्थः स एव धर्मः स एव प्रेरकः धर्मपर तन्त्राणां शास्त्रवश्यानाम् । स एव चानुष्ठेयः कार्यत्वात् , नच स घटादिवत् स्वरूपेण कर्तुं शक्यः, अपितु विषयानुष्ठानद्वारकं तत्सम्पादनम् । कमण्डळं विगृहीत्याचार्येणाज्ञसः आचार्याज्ञां मन्यते शिष्य कमण्डळंभूत्वा कृतां जनः । कटकं गच्छेति राज्ञाऽऽज्ञप्तः कटकं गत्वा राजाज्ञां कृतां मन्यते भयजनः ‘कुत्र नियोगः कस्य नियोग इत्येव विश्वजनीनव्यवहारात् नियोगः विषयं नियोज्यं चोपेक्षते नान्यद्यत्किचित् । तत्र विषयो यागादिः नियोज्यो धर्मपरतन्त्रः सहुद्धिः साधुसेवी ‘शास्त्रविश्वसशाली पुरुषः । अतएव शब्दो न स्वरूपेण प्रवर्तकः । यदि शब्द एव प्रवर्तकः पवन इव प्रवाह इव पिशाच इब कुनृप इव च संप्रत्ययं तादितरमपि न्यायमं-348 पु. प्रकरणपुं-171 पु. प्रवर्तयेत् । शास्त्रं तु सप्रत्ययमेव प्रवर्तयतीति नियोगलक्षणमर्थ प्रत्याययदेव प्रवृतिं जनयतति मन्यामहे ॥ लिङदेर्निनदस्यैव प्रेरकत्वं यदिष्यते तच्छब्दपारतन्त्र्यस्य पराकाष्ठेति निर्णयः ॥ यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् । यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥ नच किमर्थं नियोग इति तृतथािऽऽकाङ्क्षाऽपि लोकतोऽवगम्यत इति शङ्कनीयम् न दैन्यमीदृशं सोढं स्वतन्त्रं शास्त्रमर्हति । यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥ । तथाऽपि प्रेरकत्वं चेत्फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात् स्वातन्त्रयं तस्य हीयते ॥ पश्वादिभ्योऽविशेषश्च स्यादेव फलकल्पने । शत्रवश्यदशयोग्यनरताऽपि कदर्थिता ॥ 1 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते । निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥ चधरपक्षे द्वे एव नियोज्यविषयौ प्रति । तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥ कथं नरो निवर्तत प्रत्यवायभयाद्विना । राजदण्डभयाद्धयेव नराः पापं न कुर्वते । नैवं, प्रवृद्धरागान्धाः प्रत्यवायेऽपि बोधिते । अतिवर्तन्त इति हि प्रत्यक्ष सार्वलौकिकम् ॥ विधिः प्रवर्तकः तस्मारकार्यवाक्यार्थविम्मतः। फलं भवतु वा मा वा विधिनैवाभिकाङ्क्षति । फलं प्रदर्शयन्नव विधिः प्रेरक इष्यते । यैस्ते जैमिनिमुख्यास्स्युः केवलं लोकचक्षुषः ' ; 1 न्ययमे-३९१, ३६२ . Digitised by Ajit Gargeshwari For Karnataka Samskrita University