पृष्ठम्:Laghu paniniyam vol2.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितप्रकरणम्

‘तदर्हति' इत्यधिकारे-
(१८७९) छन्दसि च (यत्) । ५ । १ । ६७ ।
सर्वप्रातिपदिकेभ्यस्तदर्हतीत्यर्थे यत् । यथा-
श्र
उदक्या वृत्तयः | यूप्य: पलाश: । गर्यो देशः ।

(१८८०) उपसर्गाच्छन्दसि धात्वर्थे । ५ । १ । ११८ ।
छन्दास क्रियायोगं विनाप्युपसर्गाः प्रयुज्यन्त इत्युक्तम् । तत्रार्थ-
सिद्धक्रियास्थाने वतिप्रत्ययो वा स्यात् यथा-
यदुद्वतो निवतो यासि वप्सत् । - उद्गतानि निगतानीत्यर्थः ।
पूरणप्रत्ययेषु 'नान्तादसंख्यादेर्मट्
(१८८१) थट् च छन्दास । ५ । २ । ५० ।
नकारान्तादसंख्यादेः संख्यावाचिनः प्रातिपदिकात् परस्य पूरणा-
र्थकस्य डटो मडागमस्थाने थट् च स्यात् यथा-
साकजानां सप्तथमाहुरेकजम् ।
प्रकीर्णकम् ।
STEEL 1
75 177
(१८८२) प्रसमुपोदः पादपूरणे । ८ | १ | ६ | unting
एषामुपसर्गाणां द्वे स्तः, द्वित्वेन पादश्चेत् पूर्यते । यथा
प्रप्रायमग्निर्भरतस्य शृण्वे । संसमिछुवसे पृषन् ।
उपोप मे परामृश । कि नोदुदु हर्षसे दातवा उ ।
पादपूरणार्थमन्येऽपि विकाराः क्रियन्ते । तथा हि-यकास्वकारयोः
पुरस्तात् इकारउकारयोगः । तथाच सन्धिषु यणादेशस्थाने इयङवडौ
फलतः । भ्याम्, भ्यस्, ध्वम्, एण्य, स्य इत्येषु प्रत्ययेष्वपि भूरिश:
स्वरभक्तिरियं सञ्चार्यते । यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४८&oldid=347287" इत्यस्माद् प्रतिप्राप्तम्