कृदन्तप्रकरणम् ।
(१८६९.) जनसनखनक्रमगमो विद् | ३ | २ | ६७ ।
एभ्यो धातुभ्य उपसर्गे, सुपि वा उपपदे कर्तरि विट् प्रत्ययः ।
क्विबिव सर्वलोपी विट् । विटि कृते अनुनासिकान्तानां “विढनोरनुना-
सिकस्यात्” (६ । ४ । ४१) इत्याकारोऽन्तादेशश्च भवति । यथा-
अब्जा गोजा ऋतं बृहत् — जन ।
गोषा इन्द्रो नृषा असि—सन ।
-
इयं शुष्मेभिर्विसखा इवारुजत्–विसं खनतीति विसखाः ।
आ दधिकाः शवसा पञ्च कृष्टीः – क्रम ।
-
अग्रेगा उन्नेतॄणां – गम ।
-
(१८७०) आतो मनिनकनिब्बनिपश्च | ३ | २ । ७४ ।
चकाराद्विच् । सुप्युपसर्गे चोपपद इत्येव । यथा—
दा— सुदामा | स्था— अश्वत्थामा – मनिन् ।
-
-
धा- सुधीवा । पा– सुपीवा–क्वनिप् |
दा – भूरिदावा । पा– घृतपावा - वनिप् |
-
पा-
–कीलालपाः । या — शुंभयाः – विच् |
-
-
(१८७१) अन्येभ्योऽपि दृश्यते । ३ । २ । ७५ ।
आकारान्तभिन्नेभ्योऽपि । यथा--
प्रातरित्वा – इणः क्वनिप् ।
'सनाशंसभिक्ष उः ' —
(१८७२) क्याच्छन्दास । ३ । २ । १७० ।
क्यप्रत्ययान्ताच्छीलादिष्वर्थेषु उप्रत्ययः । यथा --
अघमिच्छतीत्यघायुः ।
क्यचि प्रक्रियाविशेषान् प्रकरणान्ते वक्ष्यामः ।
पृष्ठम्:Laghu paniniyam vol2.djvu/४६
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति