पृष्ठम्:Laghu paniniyam vol2.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातक प्रकरणम् ।
(१८६६) क्त्वो यक् । ७ । १ । ४७ ।
तवा इत्यस्य यगागमः । इदं क्वाल्यपोर्मेलनमिव प्रतिभाति । यथा-
KHIM
दत्वाय सविता धियः - दत्वा । दिवं सुपर्णा गत्वाय गत्वा
-
(१८६७) इष्ट्रीनमिति च । ७ | १ | ४८ ।
यजतेः क्त्व ईनमन्तादेशो निपात्यते यथा—
इष्ट्वीनं देवान् -
15A
|| ॐ || पीत्वीनमपीष्यते ॥ यथा पीत्वीनं - - पीत्वा ।
(१८६८) स्नात्व्यादयश्च । ७ । १ । ४९ । यथा-
स्विन्नः स्नात्वी मलादिव-
-स्नात्वा ।
पीत्वी सोमस्य वावृधे-
- -पीत्वा ।
Ling
आख्यातेषु यथा लेट् तथा आख्यातकेषु तुमर्थकाः सेअसेप्रभृ-
तयः, कृत्यार्थकास्तवैप्रभृतयश्च लोके लुप्तप्रचाराः । लेटः प्रचारलोपस्य हेतु-
लिंङ्लोड्भ्यां गतार्थकत्वमिति प्रतिपादितम् । सेअसेप्रभृतयः कथं
लोके नष्टा इति विचारयामः – 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायां' इति
-
भावार्थ -
तुमविधेरनुपदमेव‘भाववचनाश्च' इति सूत्रयता तुमुनो
कत्वं ज्ञापितमाचार्येण । ‘अव्ययकृतो भावे' इति कण्ठतश्चोक्तं भाष्यका-
रेण । अतो 'यष्टुं याति' इति तुमुन्नन्तस्य 'यागाय याति' इति घञन्तच-
तुर्थ्याश्च तुल्य एवार्थः । इह किल ‘महस्' 'रंहस्' 'चक्षस्' इत्यादौ
कश्चिदौणादिकः असुनूप्रत्ययः, 'मन्तुः' 'तन्तुः' 'सेतुः' इत्यादौ कश्चित्
तुप्रत्ययश्च भावार्थे दृश्यते । 'सम्पदादिभ्यः क्विप्’ च पाणिनिनैवोक्तः ।
एते प्रत्ययाः प्रारभ्भकाले घञादिवत् प्रायो धातुसामान्ये प्रयुक्ता आसन्निति
कल्पयितुं शक्यते । एषां चतुर्थ्येकवचनानि क्रमात् 'असे' 'तवे' 'ए' इति'
स्युः । एवं 'तुमर्थे...' इति सूत्रे पठितेषु असे, असेन्, कसेन्, तवे,
तवेन्, तवेङ् इत्येते प्रत्ययास्त्तत्तद्भाव थककृदन्तानां चतुर्थ्येकवचनरूपाणि
भवितुमर्हन्तीत्यनुमितिर्दुर्वारा प्रसज्यते । अस्यां च कल्पनायां तोसुन्-
कसुन्– तुमुनश्चोपपद्यन्ते – तुप्रत्ययान्तस्य पञ्चम्येकवचनं षष्ठ्येकवचनं
वा तोसुन्; तस्यैव द्वितीयैकवचनं तुमुन्; असुन्प्रत्ययान्तस्य प्रथमैक-
5

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४४&oldid=347283" इत्यस्माद् प्रतिप्राप्तम्