पृष्ठम्:Laghu paniniyam vol2.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यांतानि ।
मङ्गीक्रियते चेत् जुजोषत् जुजोषतां जुजोषन् इत्यादीनि लडूपाणि च
सिद्ध्यन्ति । पूर्वोपात्त उदाहरणराशिरैकैकस्यापि विकरणप्रत्ययस्य लेटि
प्रयोगं न्यदर्शयत् । लङ्लिङ्लोट्स विकणभेदो निसर्गसिद्धः । अतो
लडङ्गाल्लङादिचतुष्टयस्योत्पत्तिः स्थापिता । उत्तरोपात्तश्च रूपराशिर्लि-
टोऽङ्गेभ्यस्तेषाभेव लङादीनामुत्पत्तिं निदर्शयति । एवं लडङ्गं लिडङ्गं च
लङादीनां मूलप्रकृतिरिति पूर्वोल्लिखितोऽयं नयः सावकाशः कार्यसाधकश्च
दृश्यत इति सन्तुष्येम |
अथ यावत् सिद्धान्तकरणसाहसे पदं न कुर्मस्तावत् परिमितं
छान्दसग्रन्थसमुच्चयं सकृदपि व्यालोड्य सिसिद्धान्तयिषितायाः कल्पनाया
भूयोऽपि विषयव्याप्तिं सम्पादयितुं यतिष्यामहे । किं लङादिचतुष्टयमेव
तरुरोहिणीवदन्यस्याङ्गमाविश्य जायते उतान्येऽपि लकाराः ? किं वा वैप-
रीत्येन ललिटाविवान्येऽपि लकाराः पराङ्गरोहिणां लङादीनां मूलप्रकृती-
भूयोपकुर्वन्ति ? सन्देहस्यास्य विनिर्णयमधो दर्शितानि लक्ष्याणि संपाद-
यिष्यन्ति-
१. सिच् ।
(१) [अनिट:] नेषति, नेषत्, नेषथ, जेषः; स्तोषत् ; स्तोषाणि ।
[सेट:] कारिषत्, जोषिषत्; साविषत्; याचिषामहे ।
(२) [अनिटः] जेषं; स्थेषं; ( दह् ) धाक्; ( वह् ) वाक्षत्
च्योष्ठाः; हास्महि; [सेट:] शंसिषं; (जू) जारिषुः; बाधिष्ठाः ।
(३) [अनिट:] मुक्षीय; (भज्) भक्षीत; मंसीष्ट; (दुह् ) धुक्षीमहि,
'[सेट:] जनिषीय; एघिषीय; वन्दिषीमहि; सहिषीमहि ।
(३) [अनिट:] रासन्तां, रासाथां; [सेट] (अव् ) आवेष्टु अविष्टां
अविढि अविष्टं अविष्टन; गमिष्टं; चयिष्टम् ।
२. सिज्लुक्
(१) करति करत: करन्ति करान्; करसि करथः 1 – कराणि—
कराम करते करसे करामहे । गमत् गमतः गमन्ति; गमन्; गम: गमथ -
गैमानि । गमाम । गमामहै । भुवत् भुवतः भुवन् ; भुवः भूतः - भुवानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०७&oldid=347349" इत्यस्माद् प्रतिप्राप्तम्