यथा- पुनर् + तत्र • पुनः + तत्र= पुनस्तत्र यशस + तस्य=यशर् + तस्य= यशस्तस्य । पुनर् + च== पुनः + च= पुनस् + च (पुनश्च ) । पुनर् + टीकतेपुनः + टीकते = पुनस् + टीकते = (पुनष्टीकते)।
९५ । शर्परे विसर्जनीयः । (८-३-३५)
शितः + क्षुरः = शितः क्षुरः ।
खरीत्यर्थात् सिध्यतीत्युक्तम् । शर् परो यस्मात् तादृशे खरि परे विसर्गस्य विसर्ग एव, न कोऽपि विकारो भवतीत्यर्थ: । अत उत्तरसूत्रे वक्ष्यमाणो जिह्वामूलीयोपध्मानीयविकल्पोऽपि न भवति । यथा-- शितः+ क्षुरः =शितः+ क्षुरः ।दृढः + त्सरुः = दृढः सरुः ।
मृगः + प्साति=मृग: प्साति ।
९६ । वा शरि । (८-३-६३)
शरि परे विसर्गस्य विसर्ग एव वा स्यात् । यथा- यशस् + शुभ्रं = यशर् + शुभ्रं = यशः शुभ्रं, यशस् शुभ्रं (= यशश्शुभ्रम् ) | यशस् + सितं= यशर् + सितं = यशः सितं, यशस्सितम् । यशस् + षण्डः= यशर् + षण्डः = यशः षण्डः, यशस् षण्डः (= यशष्षण्डः) ।
९७ । कुप्वोः पौ च । (८-३-३७)
कवर्गपवर्गयोः परयोर्विसर्गस्य क्रमात् जिह्वामूलीयोपध्मानीयौ खाताम्; चकारग्रहणात् विसर्गश्च । कइति जिह्वामूलीयस्य, प इत्युपध्मानीयस्य च संकेतः ।। कर् + करोति = कर् + करोति, कः x करोति क्ः करोति,कः करोति। कस्+ खनति = कर् + खनति, कः x खनति,कः खनति। कस् + पचति = कर् + पचति = क x पचति ,कः पचति । कस् + फलति=कर् + फलति = क x फलति, कः फलति । खरि पर एव विसर्गो विहितः; खर् च खरातिखरान् प्रत्या-