सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्
४७
शिक्षाकाण्डः ।

हरति ; अतः 'कुप्वोः' इत्युक्तेऽपि कवर्गपवर्गान्तर्गतानां खरातिखरा- णामेव ग्रहणं संभवतीति बोध्यम् ।

९८ । इसुसोः सामर्थ्ये (विसर्जनीयस्य वा ष: कुप्वोः) । (८-३-४४)

सामर्थ्यम् एकवाक्यान्वयः । इस् उस् इत्येतयोर्विसर्गस्य कुप्वोः परयोर्वा षकार आदेश एकवाक्यतायाम् । यथा- सर्पिः + करोति = सर्पिष्करोति, सर्पिः करोति धनुः + प्राप्नोति = धनुष्प्राप्नोति, धनुःप्राप्नोति । प्रत्यु० – (सामर्थ्याभावे) तिष्ठतु सर्पिः, पिब त्वमुदकम् ।

९९ । नित्यं समासेऽनुत्तरपदस्थस्य । (८-३-४५)

समासविषयेऽनुत्तरपदस्थस्य इस्, उस् इत्याभ्यां निष्पन्नस्य विस-

र्गस्य कुप्वोः परयोः ष आदेशः । जिह्वामूलीयोपध्मानीययोरपवादोऽयं षः । यथा- सर्पिः + कुण्डिका = सर्पिष्कुण्डिका-इस् । धनुः+कपालं=धनुष्कपालं —उस् । आयुः + फलं =आयुष्फलं– उस् । ज्योतिः+खण्डः=ज्योतिष्खण्डः—इस् । ।यथा- प्रामीण

१०० । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । (८-३-४६)

अतः परस्य अनव्ययविसर्गस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशः

कृकमि इति धात्वोः कंसादिशब्देषु च परेषु । यथा- अयः + कारः = अयस्कारः । यशः + कामः = यशस्कामः । पयः + कुम्भः= पयस्कुम्भः—इत्यादि।

१०१ । कस्कादिषु च । (८-३-४८)

कस्कादिगणपठितेषु शब्देषु च इणः परस्य विसर्गस्य षः, अन्यस्य तु सः ।यथा- सर्पिस् + कुण्डिका = सर्पिर् + कुण्डिका = सर्पिष्कुण्डिका। कः + कः = कस्कः ।कौतः + कुतः कौतस्कुतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६६&oldid=407086" इत्यस्माद् प्रतिप्राप्तम्