सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
[स्वर संधि
लघुपाणिनिये

अथोक्तानां चतुर्णामपि सामान्यविधीनां यथायथमपवादा उच्यन्ते- ५० । पत्येधत्यूद्सु । (६-१-८९) यथा अकारः, ककारः इत्यादिवद्वर्णाः 'कार' -प्रत्ययेन निर्दिश्यन्ते, तथा भवतिः, एधतिरित्येवं तिप्रत्ययेन धातवो निर्दिश्यन्ते । अतः सूत्रे एत्येधतिभ्याम् ‘इ' 'एध' इत्येतौ धातू ग्राह्यौ । 'वृद्धिरेचि' इति पूर्वसूत्रं समग्रमनुवर्तते । 'आत्' इति च 'आद् गुणः' इत्यतोऽनुषज्यते । एचीत्येतत् 'एत्येधत्यूसु' इत्यस्य विशेषणं सत् ‘एजादौ’ इत्यर्थ बोधयति । तव 'ऊठ्' इत्यस्यासंभवात् एजादित्व- विशेषणं न संबध्यते । एच्प्रत्याहारेऽपि एकार एव संभवति । एवं च अवर्णा- देकाराद्योः ‘इ ’-‘ एघ’-धात्वोः परयोः ऊठि वा परे वृद्धिरेकादेश इति सूतार्थः । एत्येधत्योः पूर्वसूत्रेणैव सिद्धे 'एङि पररूपम्' इति वक्ष्यमाणमपवादं बाधितुमिदं वृद्धिविधानम् । ऊठस्तु आद्गुणं बाधितुम् । ऊठः स्वरूपं तद्विधौ स्पष्टीभविष्यति । अथोदाहियते-

       उप + एति = उपैति । उप + एधते उपैधते ।

प्रत्युदाहरणम् – एकारादिर्न चेत्, उप + इतः=उपेतः ।

५१ । उपसर्गादृति धातौ । (६-१-९१)

अवर्णान्तादुपसर्गाहकारादौ धातौ परे वृद्धिरेकादेश: । आद्गुण- स्यायमपवादः । यथा -

५२ । एङि पररूपम् । (६-१-९४)

  अवर्णान्तादुपसर्गात् एङादौ धातौ परे परस्य रूपं (प्रकृते एङ्)

एकादेशः स्यात् । पूर्वस्य लोप इति फलितम् । यथा-

    प्र + एजते = प्रेजते ।प्र + ओषति = प्रोषति ।

‘वृद्धिरेचि' इत्यस्यायमपवादः । अस्यापवादः 'एत्येधत्यूठ्सु' इति । अपवादस्यापवदनात् प्रत्यावृत्त उत्सर्गः प्रतिप्रसव इत्युच्यते । तस्मात् उपैतीत्यादौ वृद्धेः प्रतिप्रसवः । अत्र वार्त्तिकम् -

१. धातुलक्षणम् (१२५) सूत्रे दृश्यताम् ।२. उपसर्ग: (१३३) सूत्रे लक्षितः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५&oldid=407022" इत्यस्माद् प्रतिप्राप्तम्