अथ पञ्चभिः सूत्रैः अयवायावादेशा हलि परेऽपि कुत्रचिद्विधीयन्ते । तानि प्रकरणान्तरे व्याख्यास्यामः ॥
४५ । एकः पूर्वपरयोः । (६-१-८४)
अधिकारसूत्रमिदं न तु विधायकम् । इतः परं विधीयमाना आदेशाः पूर्वपरयोर्मिलितयोः कर्तव्या इत्यनेन सूत्रेण प्रतिज्ञायते ॥
४६ । अन्तादिवच्च । (६-१-८५)
एकादेशोऽयं पूर्वस्यान्तवत् परस्यादिवञ्च गणयितुं शक्यते । इद- मपि एकादेशस्य स्वरूपकथनरूपत्वाधिकार एव । एवमुत्तरसूत्रमपि-
४७ । षत्वतुकोरसिद्धः । (६-१-८६)
षत्वे तुकि च कर्तव्ये एकादेशविधिरसिद्धः स्यात् । अधिकार- सूत्रद्वयस्यास्य प्रयोजनमुपरिष्टाद्दर्शयिष्यते। सूत्रक्रमानुरोधेनैवैतदत्र व्या- ख्यातम् । प्रारम्भे बाला नैतत् पठन्त्विति कोष्ठकान्तर्निवेशितं प्रारम्भका निरस्यन्तु ॥ ]
४८ । आद् गुणः । (६-१-८७)
‘आत्' इति 'अ' इत्यस्य पञ्चम्यन्तम्, तपरकरणाभावात् सर्वविधमप्यकारं गृह्णाति । 'इको यणचि' इत्यत: 'अचि' इत्यनुवर्तते ; 'एकः पूर्वपरयोः' इत्यधिकृतं च । अतः अवर्णादचि परे पूर्वपरयोरेको गुण आदेश इति सूत्रार्थ: । 'अदेङ् गुणः' (१९) इति संज्ञाकरणात् अ (हस्व:) ए, ओ इत्येते स्वरा गुणशब्देन गृह्यन्ते । 'एक: पूर्वपरयो: ' (४५) इत्यधिकारादत्र स्थानिनौ द्वौ; तयोः पूर्वः सर्वत्रापि अवर्ण: ; परः सर्वोऽप्यच् इत्युक्तेऽपि इक् (इ, उ, ऋ, ऌ) एव विवक्षित इति उपरि स्पष्टीभविष्यति । एवं चात्र (१) अ इ वर्णी, (२) अ उ वर्णी, (३) अ ऋ वर्णी, (४) अ-ल वर्णी चेति चत्वारि द्वन्द्वानि स्थानिनः ।