वर्णा: आदेशाः स्युरिति सूत्रार्थः संपद्यते । यथासंख्यपरिभाषया (४१) इकारस्य यकारः, उकारस्य वकारः, ऋकारस्य रेफः, ऌकारस्य लकार: इत्युद्देशक्रमेणादेशाः प्रवर्तन्ते । 'अचि' इति निमित्तस्य तु संख्यासाम्याभावान्न कोऽपि क्रमः । यथा -
दधि + अर्थ = द ध् य् अर्थे = दध्यर्थम् ।
मधु + ,, = म ध् व् ,, = मध्वर्थ्म् ।
पितृ + ,, = पि त् र् ,, = पित्रर्थम् ।
गम्ऌ +,, = ग म् ल् ,,= गम्लर्थम् ।
'अणुदित्सवर्णस्य च' (३८) इति परिभाषाबलात् दीर्घ ईकारादि- रपि इगच्प्रत्याहाराभ्यां ग्राह्यः । तेन-
सुधि + ऊहितं =सुध्यूहितं
वधू + आननं =वध्वाननं
कॄ + आकूतिः=क्राकूतिः
लॄ+ आपत्तिः = लापत्तिः
इत्यादावपि यण् सिध्यति ।
४४ । एचोऽयवायावः । (६-१-७८)
अचीति पूर्वसूत्रादनुषज्यते ; अय्, अव्, आय्, आव् इत्येषां द्वन्द्वे अयवायाव इति प्रथमाबहुवचनम् । ए, ओ, ऐ, औ एषाम् अचि परे क्रमात् अय्, अव्, आय्, आव् इत्यादेशाः स्युः ॥
पदमध्ये [१]पदान्ते
हरे + ए = हरय् ए = हरये हरे + इह= हरय् इह =हरयिह ।
गुरो + ए =गुरव् ए = गुरवे गुरो + इह =गुरव् =इह्=गुराविह।
नै+ अकः - नाय् अकः = नायकः तस्मै + उक्तं = तस्माय् उक्तं = तस्मायुक्तं
पौ+ अकः = पाव् अकः = पावकः तौ + एव = तावू एव = तावेव ।
- ↑ पदान्तसंधौ यवयोर्विकल्पेन लोपो वक्ष्यते । अतः 'हर एहि' इत्याद्यपि रूपं भवति ।