च ग्राहक: स्यात् । 'इक्' 'अच्' इत्यादिप्रत्याहारैः सूत्रानुक्ता दीर्घाद्या
अपि ग्राह्याः । व्याख्यातमिदं पूर्वमेव । 'अप्रत्ययः' इति निषेधांश: परं
व्याख्यातव्योऽस्ति । प्रत्ययरूपस्तु स्वरो न सवर्णग्राहकः इत्यक्षरार्थः ।
प्रत्यय इति विधेयोपलक्षणम् । तेन आगमादेशयोरपि निषेधेऽन्तर्भावो
ज्ञेयः । तदेतदुक्तम्-
॥ * ॥ ‘भाव्यमानेन सवर्णानां ग्रहणं न '
इति । 'अ' इति प्रत्यय:, आदेशः, आगमो वा विधीयते चेत् तत्र 'आ
इति दीर्घस्वरूपोऽपि सोऽस्त्विति नापादानीयमित्यर्थः ॥{{center|
३९ । तपरस्तत्कालस्य । (१-१-७०)
ये पुनः स्वरा निर्दिष्टमात्रका एवापेक्षितास्ते तकारं परं कृत्वा उच्चार्यन्ते । अयमपि संकेत उक्त एव ॥
९ । आदिरन्त्येन सहेता । (१-१-७१)
इदं सूत्रं संज्ञाप्रकरणे प्रसङ्गवशाव्याख्यातम् ॥
४० । येन विधिस्तदन्तस्य । (१-१-७२)
विशेषणेन तदन्तं ग्राह्यम्, यथा—'आतो धातोः' इत्युक्ते आदन्तस्य धातोरित्यर्थः ॥
४१ । यथासंख्यमनुदेशः समानाम् । (१-३-१०)
उद्देश्यानूद्देश्ययोः संख्यासाम्ये उद्देशक्रमेणैव प्रवृत्तिः । चतुर्णी स्थानिनां चत्वार आदेशाचेदुच्यन्ते, प्रथमस्य प्रथमो द्वितीयस्य द्वितीय इति क्रमो प्राह्य इत्यर्थः ॥
४२ । स्वरितेनाधिकारः । (१-३-११)
ग्रन्थेषु पूर्वोत्तरवाक्ययोः संबन्धः सर्वजनविदितः । कचिदुत्तर-
वाक्यस्यान्वयपूर्तये पूर्ववाक्यात् पदान्यायोजनीयान्यपि स्युः । एवं पूर्व-