३५ । तस्मिन्निति निर्दिष्टे पूर्वस्य । (१-१-६६)
३६ । तस्मादित्युत्तरस्य । (१-१-६७)
- पूर्वपरयो: पूर्वस्य कार्ये कर्तव्ये परं सप्तम्यन्तं क्रियते ; परस्य तु कार्ये कर्तव्ये पूर्व पञ्चम्यन्तं क्रियते । यथा – मित्रशब्दे परे विश्व - शब्दस्य दीर्घ विधातुम् 'विश्वस्य मिले दीर्घः' इत्याचार्य: सूत्रयेत् ; मित्रशब्दस्य विश्वशब्दे पूर्वे पुंलिङ्गत्वं विधातुम् 'विश्वान्मित्रं पुमान्' इति सूत्रयेत् । 'मित्रे' इत्यत्र 'मित्रे परे' इति, 'विश्वात्' इत्यत्र 'विश्वात् परम्' इति च परशब्द उभयत्राप्यध्याहार्य इति तात्पर्यम् । सप्तम्यन्तं दृष्ट्वा पूर्वस्य कार्य कुर्यात्, पञ्चम्यन्तं दृष्ट्वा परस्य कार्य
कुर्यादिति संकेतस्वरूपम्॥
३७ । स्वं रूपं शब्दस्याशब्दसंज्ञा । (१-१-६८)
सूत्रेऽस्मिन् (१) 'स्वं रूपं शब्दस्य' इत्यंशेन विधिः क्रियते । (२) 'अशब्दसंज्ञा' इत्यंशेन स एव विधिनिषिध्यते । (१) शब्दस्य स्वरूपमेवास्मिञ्छब्दशास्त्रे विशेष्यतया गृह्यते, न त्वर्थः । यथा— पूर्वोक्ते ‘विश्वस्य मित्रे' इत्युदाहरणे विश्वमित्रशब्दावेव ग्राह्यौ, न तु कृत्स्नबन्धू इति तयोः पर्यायौ । (२) अशब्दसंज्ञा = शब्दसंज्ञां वर्जयित्वा । शब्द- संज्ञेत्यस्य शब्दशास्त्रकृता संज्ञेत्यर्थः । शास्त्रे 'गुणः' 'वृद्धिः' इत्याद्याः या: सांकेतिकसंज्ञाः कृतास्तत्र तु अर्थ एव ग्राह्यो न शब्दरूपमिति उक्तस्य विधेः संकोचनम् । तथा च गुणवृद्ध्यादिविधौ अदेङ् गुणः, वृद्धिरादैच् इत्यादीन् संकेतितानर्थानेव गृह्णीयात्; अन्यत्र तु शब्द- - रूपम् ॥
३८ । अणुदित् सवर्णस्य चाप्रत्ययः । (१-१-६९)
अण् इति 'लण्' -सूत्रणकारेण प्रत्याहारः, स्वरान् मध्यमांश्च प्रत्याहरति । स्वरमध्यमौ, उकारेण इता योजितश्च वर्णः स्वस्य सवर्णस्य स्वस्य संवर्णस्य