तीति न्यायेन भगवतः पाणिनेस्तन्त्रे तत्र तत्र न्यूनतां पश्यन् कात्यायन
ऋषि: प्राधान्येन शेषपूरणपरं वार्त्तिकसंज्ञितं तद्विवरणं प्रणिनाय ।
पाणिनेः सूत्रेषु कात्यायनस्य वात्तिकेषु च कूलंकषां चर्चा कुर्वन्
पंतञ्जलिः शब्दानुशासनसर्वस्वभूतं महाभाष्यमभाषिष्ट । अतश्च मुनित्रयस्य यथोत्तरं प्रामाण्यमिच्छन्ति पाणिनीयाः । न्याय्यं चैतत् । किं तु
मुनित्रयेणास्मृता अपि दृश्यन्त एव प्रयोगा महाकविग्रन्थेषु । तथा हि
—विश्रम इति वक्तव्ये विश्राम इति प्रयुञ्जाते काळिदासभवभूती ।
ऋतेशब्दयोगे पाणिनीयानामनभिमतापि द्वितीयाविभक्तिर्बहुत्र दृश्यते ।
एवं कृशाङ्गी, कम्बुकण्ठी, मृदुगात्री इत्यादिपदानि पाणिनीयानुल्लङ्घ्य
ईकारान्तान्येव कविभिः प्रयुज्यन्ते । अनुशिष्टाश्चैते प्रयोगा: पतञ्जलेरनन्तरगामिभिः काशिकाकारचन्द्रस्वामिप्रभृतिभिः । तथापि भट्टोजिप्रभृतयः केचिदर्वाचीना मुनित्रये श्रद्धाजाड्येन सुशव्दानेतान् न
सहन्ते । वीरवैयाकरणानां दुःशाठ्यमिदं वीरवैष्णवैः कृतं शंकरदूषणमिव मध्यस्थैरुपेक्षणीयमिति मन्यामहे ॥
प्रसङ्गवशात् पाणिनीयव्याख्यातॄणामन्येऽपि केऽप्यसुन्दरा व्याख्याप्रकारा अत्र निरूप्यन्ते । ते हि पाणिनेः सर्वज्ञत्वं प्रतिज्ञाय तेन स्वप्नेऽप्यनुत्प्रेक्षितानर्थान्, तत्सूत्राणि निष्पीड्य, संपादयन्ति । तथा हि — ते कदाचिदिष्टसिद्ध्यर्थमेकधा स्थितं सूत्रं द्विधा छिन्दन्ति - यः किल योगविभाग इत्युच्यते । अन्यदा सूलगतानि पदानि समग्रमेव वा सूत्रमावर्तयन्ति । एकदा 'छन्दोवद्भवन्ति सूत्राणि' इति स्वातन्त्र्येण कंचिन्न्यायमुल्लिख्य पञ्चम्यर्थे चतुर्थी, चतुर्थ्यर्थे प्रथमा, अविभक्तिको निर्देश इत्यादिप्रतिज्ञानैर्विभक्तीर्व्याकुलीकुर्वन्ति । सूत्रेषु कुत्राप्यदृष्टं वर्णमैन्द्रजालिका इव प्रश्लेषादिभिरुपायैराविष्कुर्वन्ति । किं बहुना, नास्ति स उपायो यं काशकुशावलम्बिन एते नाद्रियेरन् । कुसृष्टिकल्प-