<poem> समुदायो वा) आदेशः ; तत्र स्थितो वर्णः स्थानीत्युच्यते । यथा—‘तौ + इव = ताविव' इत्यत्र औकार: स्थानी, आव् इत्यादेशः । प्रतिनवस्य वर्णस्य योजनमागमः । यथा – 'तरु + छाया = तरुच्छाया' इत्यत्र रुकारछकारयोर्मध्ये चकार आगमः। आगमविपरीतः स्थितस्य नाशरूप आदेश एव लोप इत्युच्यते । यथा – 'राजन् + पुरुषः = राजपुरुष: ' इत्यत्र नकारस्य लोपः ॥
- 'स्थाने शत्रुवदादेशः फाले पुण्ड्रवदागमः ।
- दन्तानामिव लोप: स्याच्छत्रवत् प्रत्ययाः परे ।'
इत्यागमादेशलोपप्रत्ययानां भेदो दर्शितः प्राचीनैः ॥
अथाङ्गभूतानां धातुपाठादीनां स्वभावो वर्ण्यते-भू, एध, स्पर्ध, अद, हु इत्यादीनां क्रियावाचिनीनां प्रकृतीनां परिगणनं धातुपाठ इति व्यवह्नियते । तत्र ‘भू सत्तायाम्' 'एध वृद्धौ' इत्याद्यर्थनिर्देशोऽर्वाचीन एव, न त्वाचार्यप्रणीतः। भूवादिरदादिरित्यादिदशगणात्मको धातुपाठः । सर्वादिः, प्रादिः इत्यादिनामशब्दप्रकृतीनां परिगणनं गणपाठः । ते च बहवः सन्ति । स्वरान्तो व्यञ्जनान्तो गुणवाची बह्वक्षर इत्यादिवत् केनापि साधारणेन धर्मेण ये निर्देष्टुं न शक्यन्ते तैरेव शब्दैः पाणिनिर्गणान् कल्पयति । गणे यः शब्दः प्रथमं पठ्यते तेन तस्य गणस्य संज्ञा क्रियते । यथा— सर्व, विश्व, उभ, उभय इत्यादिर्गणः सर्वादिरित्युच्यते । अक्षराणां पाठोऽक्षरसमाम्नायः । अक्षराणामेवोच्चारणशिक्षणं शिक्षाख्यस्य भागस्य विषय: । अमुकस्य शब्दस्यामुकं लिङ्गमित्यनुशासनं लिङ्गानुशासनम् । तत्राक्षरसमाम्नायो महेश्वरेण प्रोक्त इति ह स्माहु: ; अन्यानि तु पञ्च नि:संशयं पाणिनीयान्येव ॥
पञ्चपाठ्यामस्यां प्रतिष्ठापितमाचार्येण स्वकीयं व्याकरणम् । व्याप्नोति चैषा व्याकरणस्य समयं विषयम् । तथापि नैकः सर्वं जाना-