सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम् ]
१२१
परिनिष्ठाकाण्डः ।

'सुप्तिङन्तं पदम्' इति पदसंज्ञा न स्यात् । ततश्च पदान्तत्वाभावात् 'न लोपः प्रातिपदिकान्तस्य' इति नलोपः कथं प्रवर्तते ? इति दुर्घट- मापतेत् । अत्रोच्यते- सर्वो लोपो न तुल्य: ; लोपस्यापि प्रकारभेदाः सन्ति । तथा हि —

३२९ । अदर्शनं लोपः । (१-१-६०)

वर्णानामदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः लोप इत्युच्यते ।।

३३० । प्रत्ययस्य लुक्श्लुलुपः। (१-१-६१)

लुक्, श्लु, लुप् एतैरपि शब्दैः प्रत्ययस्यादर्शनं क्रियते । प्रत्यय- विषये एतेऽपि शब्दा लोपपर्याया इत्यर्थः ॥

३३१ । प्रत्ययलोपे प्रत्ययलक्षणम्। (१-१-६२)

प्रत्यये लुप्तेऽपि प्रत्ययनिमित्तकं कार्य स्यात् । तथा च 'राजा' इत्यादौ हल्ङयादिलोपेन सौ लुप्तेऽपि तन्निमित्तका पदसंज्ञा भवत्येव ॥

३३२ । न लुमताङ्गस्य । (१-१-६३)

लुमता-शब्देन (लुक्, लु, लुप् इत्येभिः, त्रिष्वपि हि 'लु' इत्यक्षर साधारणम्) प्रत्ययलोपे कृते लुप्तप्रत्ययनिमित्तकमङ्गकार्य न स्यात् || अनेन प्रकृते इष्टसिद्धिः । स्वमोरदर्शनं लुक्शब्देन कृतम् ; त्यदाद्यत्वं चाङ्गकार्यम् ; अतस्त्यदाद्यत्वं स्वमोलुकि न स्यात् । पदसंज्ञा तु अङ्गकार्यत्वाभावात् भवत्येव । एवं च क्लीबे प्रथमाद्वितीयैकवचनयोः प्रत्ययविरहादङ्गकार्याभावाच्च विरला एव प्रकृतेर्विकाराः ।। सत्यमुक्तविधया पूर्वपक्षस्य समाधानमासीत् ; तथाप्याशङ्का हृदया- न्निश्शेषमनिर्मृष्टा किञ्चिदिव कालुष्यमवशेषयति । तथा हि — स्वमोहि लुप्तयोस्त्यदाद्यत्वस्य नावसरः; अत्वमेव प्रथमं प्रवर्तताम्; लोपः प्रथमं कर्तव्य इत्यत्र किं मानम् ? इति । अत्रोच्यते – यत्र तुल्यबला अनेक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४०&oldid=408012" इत्यस्माद् प्रतिप्राप्तम्