३२६ । आद्यन्तवदेकस्मिन् । (१-१-२१)
एकस्मिन् वर्णे क्रियमाणं कार्यं तदादाविव तदन्त इव च स्यात् । तेन अदादेरदन्तस्य च विहितं कार्यमकारमात्रस्यापि भवति ॥ त्यदादिष्वेतत्तदोरन्योऽप्यस्ति विशेषः—
३२७ । एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । (६-१-१३२)
(अको:) अकच्प्रत्ययरहितयोः एतत्तदोः 'सु' प्रत्ययलोप: स्यात् संहितायां हलि परे;नञसमासे तक्तं न । यथा - एषस् + ददाति =एष ददाति । | सस् + ददाति = स ददाति । प्रत्यु० - ('अकोः' किम् ? ) एषको ददाति; सको ददाति । ('अनञ्समासे' किम् ? ) अनेषो ददाति । एष न भवतीत्यनेष: ; स न भवतीत्यसः ॥ ('हलि' किम् ?) एषोऽत्र; सोऽत्र ।
३२८ । सोचि लोपे चेत् पादपूरणम् । (६-१-१२४)
अचि परेऽपि 'सः' इति तदः सुलोप: स्यात्, लोपेन पाद- पूरणं प्रयोजनं लभ्यते चेत् | यथा— 'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी, सैष भीमो महाबलः ॥ प्रयोजनापेक्षोऽयं विधिस्तस्यान्यथैव सिद्धत्वे न प्रवर्तते । अतः
'सोऽहमाजन्मशुद्धानाम् "
इत्यादौ विनैव लोपं पादपूरणाल्लोपो न भवति ॥ अत्रेदं चोद्यम्—नु नपुंसके स्वमोर्विषये त्यदाद्यत्वं कुतो न भवति ? तत्र हि 'स्वमोर्नपुंसकात्' इति प्रत्ययो लुप्यते;ततो विभक्तेः परत्वाभावादत्वस्य न प्रसक्तिरिति चेत्,नेदं समाधानम तर्हि 'राजा' इत्यादावपि हल्ङयादिलोपेन सुप्रत्ययस्यादर्शनात्