सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
[सुबन्त
लघुपाणिनीये

२३०

आबन्तस्य एत् संबुद्धौ परतः । यथा- रमा + स् = रमे + स् ('संबुद्धिलोपः ' २२४) = (हे ) रमे ।

२३१ । अम्बार्थनद्योर्हखः । (७-३-१०७)

अम्बार्थानां नदीसंज्ञानां च ह्रस्व : संबुद्धौ | अम्बा, अक्का, अल्ला इति त्रय एव शब्दा आदन्ता अम्बार्थाः ॥ (हे) अम्ब, अक्क, अल्ल (हखात् संबुद्धिलोपः २२४ । )

२३२

ह्रस्वान्तस्याङ्गस्य गुण: स्यात् संबुद्धौ | यथा— हरि + स् = हरे + स् = हरे । गुरु + स् = गुरो + स् = गुरो | 'एङः संबुद्धिलोपः' २२४ ।

२३३ । जसि च । (७-३-१०९)

ह्रस्वस्य गुण: स्यात् जसि च परे । यथा— हरि + अस् = हरे + अस् = हरयः । गुरु + अस् = गुरो + अस् = गुरवः । अकारान्तस्य गुणेन कोऽपि न विशेषः । ऋकारान्तस्य तु न केवलं जसि संबुद्धौ च गुणः, अपि तु अन्यत्राप्यस्ति । तदेवाह—

२३४ । ॠतो ङिसर्वनामस्थानयोः । (७-३-११०)

ऋदन्तस्य ङौ सर्वनामस्थाने च गुणः ॥ पितृ—पितरौ, पितरः;हे पितः; पितरम्, पितरौ ; पितरि । संबुद्धौ पितृ + स् इति स्थिते गुणेन पितर् स् इति जाते हल्ङयादि-

लोपः । सौ अनङादेशस्य विशेषविधानाद्गुणो न प्रवर्तते ॥

२३५ । घेर्ङिति । (७-३-१११)

घिसंज्ञस्य ङिति प्रत्यये गुणः । ङे, ङसि, ङस्, ङि एतानि चतुर्थ्याद्येकवचनानि ङित्प्रत्ययाः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११३&oldid=407477" इत्यस्माद् प्रतिप्राप्तम्