मालामतिक्रान्तोऽतिमाल: इत्यादौ उपसर्जनाह्रस्वे भूदिति ङयापो-र्दीर्घविशेषणम् ॥
२२४
एङन्तात् हस्वान्ताज्च संबुद्धेर्लोप: स्यात् । संबुद्धिर्नाम संबोध-
नार्थे प्रथमाया एकवचनम् ; तथा च सूत्रम् -
२२५ । एकवचनं संबुद्धि: ( प्रथमा संबोधने) । (२-३-४९)
राम + स् = (हे) राम । हरे + स् = ( हे ) हरे । । 'हं' इति निपातः संबोधनं द्योतयति गुरो + स = ( हे ) गुरो । । ‘अतो दीर्घो यञि' इत्यनुवर्तमाने
२२६ । सुपि च । (७-३-१०२)
अदन्तस्याङ्गस्य दीर्घः स्यात् यत्रादौ सुपि परे । यथा- राम + य = रामाय । | राम + भ्यां = रामाभ्याम् ।
२२७ । बहुवचने झल्येत् । (७-३-१०३)
झलादौ बहुवचने सुपि परे अदन्तस्याङ्गस्य एकारादेश: स्यात्, दीर्घापवादः । तेन 'भ्याम्, य' इत्यनयोः परयोर्दीर्घः । 'भ्यस्, सुप् साम्' इत्येष्वेत्वं च फलितम् || राम + भ्यस् = रामेभ्यः । राम + सु = रामेसु, रामेषु । (इण्कवर्गाभ्यां परस्य सस्य षत्वं वक्ष्यते ।)
२२८ । ओसि च । (७-३-१०४)
ओसि परे च अदन्ताङ्गस्य एत् । यथा - राम + ओस् = रामे + ओस् = रामयोः ।
२२९ । आङि चापः । (७-३-१०५)
‘आङ्' इति तृतीयैकवचनस्य ('टा' इत्यस्य) पूर्वाचार्याणां संज्ञा । आबन्तस्य टाप्रत्यये (चकारात्) ओसि च परे एकारः॥ रमा + आ = रमे + आ = रमया । रमा + ओस् = रमे + ओस्= रमयोः।