पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/47

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६

कुमारसम्भवम्

प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २० ॥
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २१ ॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २२ ॥


निबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १९ ॥
     उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-
     प्रशमादिति ।। अर्चिषां तेजसां प्रशमान्निर्वाणादनुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतद्वृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते ॥ २० ॥
     किं चेति ।। किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी' इत्यमरः । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः ॥ अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः ॥ २१ ॥
     कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपबिद्धगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनः शल्यम् । दुःखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रुकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः । बाहौ मुख्यकथनस्यासम्भवादिवशब्दोऽप्यत एव ॥ २२ ॥