कुन्ता इति । कुन्ताः प्रासास्त्राणि । कर्तारः । रणस्य संग्रामस्य सम्बन्धिनि अङ्गणे चत्वरे चढम् उग्रं यथा तथा उल्लसन्तः स्फरन्तः सन्तः । लेलिहानाः पुनःपुन: अतिशयेन अखदनशीलोः । यङन्तालिदधातोः कर्तरि शनच्। यमस्य अन्तकस्य सम्बन्धिनः जिह्वा रसनेव आभोगः यन्त्रणव चकाशिरे शभिरे उमयेषां तुल्यवृत्तित्वादिति भावः ॥ १६॥
प्रज्वलदिति । वराणां श्रेष्ठानां चक्रिणां यो णां सम्बधानि चक्राणि आयुधभेदा:। कर्तुणि। प्रज्वलत् ’ शोभमानं कन्तीनां दीप्तनां सम्बन्धि चनं मण्डलं येषां तथोक्तानि । तथा चण्डाः तीक्ष्णाः अंशवः किरणः यस्य तथोक्तस्य सूर्यस्य मण्डलस्येव श्रीः शोभा येषां तथाभूतानि सन्ति । रणं युद्दमेव व्योम आकाशं तस्मिन् बभ्रमुः समन्ततः ययुरित्यर्थः ॥ १७ ॥
केचिदिति । केचित् कतिविध योद्धारः । कर्तारः । अभ्युपेयुषां अभिमुखमागतानां वौराणां योत्रृणां सम्बन्धिभिः । धौरैः गम्भौरः प्रणादैः निर्जीवैः । करणैः ।“ ओभतः चितचाख्यात् । हेतौ द्वतीया । बाहात् पश्चात् निपेतुः पतिताः