पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३५
पञ्चदशः सर्गः ।


मनोऽतिवेगेन रथेन सारथि-
प्रणोदितेन प्रचलन्महीसुरः ।
ततः प्रपेदे सुरसैन्यसागरं
भयङ्कराकारमपारमग्रतः ॥ ४५ ॥
पुरः सुराणां (८)[१]पुतनां प्रथौयसीं
विलोक्य बौरः पुलकं प्रमोदजम्।
बभार (९)[२]भूम्नाथ स बाहुदण्डयोः
प्रचण्डयोः सङ्गरकेलिकौतुको ॥ ४६ ॥

इन्द्रस्य अन्तिकं समयं प्रापय नय इति निजसारथिं स्वस्तम् अवोचत् उवाच ॥ ४४ ॥

 मन इति। ततः अनन्तरं महान् असुरः तारकः । कर्ता। मनसः चित्तदपि अति अधिक वेनः जवः यस्य तथोनसारथिना स्तन । कवी। प्रणोदितेन सद्यालितेन रथेन। रणन। प्रचलन् गच्छन् सन् अग्रतः संमुखे, नास्ति पारः शेषो यस्य तथोक्तम् । तथा भयङ्करः भीषणः आकारः आङfतर्यस्य तथाभूतम्, सुराणां देवानां सम्बन्धि यत् सैन्य ' तस्य सागरं समुद्रम्। कर्मभूतम् । प्रपेदे आससद ॥ ४५ ॥

 पुर इति ॥ अथ अनन्तरं सुरसैन्यप्राप्तः परमित्यर्थः। स वीरः पराक्रान्तः। कर्ता । पुरः अग्रतः प्रथीयसीम् । अतिविस्तर्णा, सुराणां देवानां सम्बन्धिनीं पृतनां सेनां विलोक्य गिरीव सङ्गरकेलौ संग्रामक्रीडायां कौतुकम् उल्लासोऽस्ति अस्य तथोक्तः सन् प्रमोदात् हर्षात् ज्ञायते यत् तथोक्तं, चकयोः दुर्दमयः बाहुदण्डयोः सम्बन्ध पुलकं रोमयं भूगल आधिक्येन बभार श्रुतवान् ॥ ४६ ॥


  1. पूतनाः प्रथीयसीः ।
  2. भून्त्रा बहु।