एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
द्वादशः सर्ग ।
यस्वः तथोक्तया विद्यतेत्यर्थः। शरदः शरत्कालस्य सम्बन्धि यत् अभ मेघः तस्य खण्डं शकलमिव विराजमानं दौप्यमानं शोभमानमिति यावत् ॥ १८ ॥
दृप्तेति । पुनः कीदृशम् । दृप्तस्य अभिमानिनः अन्धकस्य अन्धकाभिधेयासुरस्य प्राणानां हरं नाशनम् अन्धकनिर्दनमित्वर्थः । तथा महासुराणां त्रिपुरादीनां याः स्त्रियः पत्त्रः तासां सम्बन्धि यत् विधवत्वं वैधव्यं पतिशीनत्वमिति यावत् । तस्य हेतु कारणम् । त्रिपुरादीनां निखदनत्वादिति भावः। तथा अन्यैः शिवभिनैः जनैः कर्तृभि: अग्म अश्वथै पिनाकं पिशाकाभिधेयं स्वकीयं धनुः करश हस्तेन करणेन झन्तिं धारयन्तम्। तया पुरा पूर्वं कामस्य कन्दर्पस्य यत् शोषणं दाहः तदेव कलिः लला तस्य कारः साधकः तयोक्तं कामनिसूदनमित्यर्थः ॥ १९ ॥
भद्रासनमिति । महार्हाणि महार्मुख्यानि यानि माणिपनि मणयः तेषां विभङ्गिभिः रचनाभिः चित्र नागरूपं