पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


दशः सर्ग । १२७ भालस्थले लोचन(७)मेधमान धामाधरौतरवौन्दुनेत्रम् । युगान्तकालोचितकृव्यवाही मौनध्वजप्लोषणमादधानम् ॥ १२ ॥ महार्हरत्नत्रितयो(८)दारं स्फुरत्प्रभामण्डलयाः समन्तात् । अनेकीभवन्तमिति यावत् । सुधांशम् इन्दु शिरम मस्त केन करणेन उद्वहन्त धारयन्तम् । अतएव तुषारवत् हिमवत् गरेः शक्तेः तथा चलन्त्यः प्रसरन्थः यः मरीचयः किरणाः तासां प्रचयः समूहः तैः हिमद्योतितम् । हिमस्य हिम- संघातस्येव द्योतः धृतिः दीप्तिरिति यावत् जातोऽस्य तथोक्त हिमवद्दौप्तिमन्तमि→र्थः । मस्तकस्थगङ्गातरङ्गसम्यर्कप्रतिफल तानेकचन्द्रकान्तिभिर्धवलाङ्गस्यापि शिवस्यधिकधवलीभूतत्व- मिति भावः ॥ ११ ॥ भालेति । भाल स्थले ललाटप्रदेशे एधमानेन वर्धमानेन धात्रा तेजसा अधरोभूते पराजिते रवौन्दू सूर्याचन्द्रमसावेव नेत्त्रे नयने येन तथाभूतं तदधिकर्तजस्विनमित्यर्थः । अथवा एधमानं वर्धमानं धाम तेजः यस्य तथाभूतम् । तथा युगान्त काले कल्पान्तसमये उचितः परिचितः निर्गलितत्वादिति भावः । हव्यवाहः अनलः यस्मात् तथोक्तम् अतएव मीनध्वजस्य कन्दर्पस्य शोषणं दाहकं दइनमिति यावत् । प्रधानम् । उद्वहन्तम् ॥ १२ ॥ महार्हति । पुनः किंविधम् । महर्षीणि बहुमूषानि यानि रत्नानि मणयः तैः अखिते खचिते तथोक्तयोः। अतएव () एधमगम् । (८) उदार ।