पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नवमः सन: । ४६ प्रवेपमानो (८नितरां शरारिः मिदं वचो व्यक्तमथा(३)युवाच ॥ ३ ॥ असि त्वमेको जगतामधीशः स्वगौकसां त्वं विपदो निहंसि । (९) ततसुरिन्द्रप्रमुखाः प्रभो त्वाम् उपासते दैत्यवरैर्विधृताः॥ ७॥ त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये (२)सुरतादृतूनाम् । अभ्रातीति बुताशः अग्निः स्वरूपं निजदेहम् आस्यमय अवलस्य वसन् बिभ्यत् सन् । बलन् उद्भवम् कम्यो यस्मिन् तत् यथा तथा छतः रचितः अञ्जलिः येन तथोकः। तथा नितरां शं यथा तथा प्रवेपमानः कम्पमानश्च सन् । अथ अरस्य कामस्य अरिं शठं शिवम् इदं वक्ष्यमाणं वचः व्य स्पष्टं यथा तथा अध्युवाच ठतवान्। “दुश्चच्-’ इत्यादि स्रवेण द्विकर्मकत्वम् ॥ ६ ॥ असति ॥ हे प्रभो निग्रहनिग्रहसमर्थं देव । एकः केवलः त्वं जगतां पृथिव्यादीनां ईशः अधिपतिः असि । त्वत्सदृशोऽन्यो जगपालको नास्तीत्यर्थः । अतएव त्व' स्खगौकसां स्वर्गः ओकः स्नं येषां देवानामित्यर्थः । विपदः उपद्रवानित्यर्थः । निहंसि विनाशयसि । ततः तस्मात् कारणात् । विपत्पतनादित्यर्थः। सुरेन्द्रप्रमुखाः सुरेन्द्रः देवेन्द्रः प्रमुखः अग्रवर्ती येषां ते तयोः देवाः दैत्यवरैः तारकप्रभृतिभिः विधूताः कम्पिताः तिरस्कृता इति यावत् जनितोपद्रवा इत्यर्थः। अतः त्वाम् उपासते । तवादिना सेवन्ते इत्यर्थ: ॥ ७ ॥ (7) अतितराम् । (e) अभ्युवाच । (९) अत:। (२) अनुभवन्।