पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कुमारसंभवे


रात्रिवृत्तमनुयोक्त, मुद्यतं
सा (७)[१]विभातसमये सखौजनम् ।
नाकरोदपकुतूहलं क्रिया
शंसितु' (८)[२]च हृदयेन तत्वरे ॥ १० ॥
दर्पणे च परिभोगदर्शिनी
पृष्ठतः प्रणयिनो निषेदुषः।
प्रेक्ष्य (९)[३]विम्बमनु बिम्बमात्मनः
कानि (१)[४]कानि न चकार लज्जया ॥ ११॥

ढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-‘नात्यन्तमानुलोयन न चातिप्रतलामत । मि डिं गच्छन्ति वा तस्मान्मध्यन साधयेटिति। नवोढाम्” इति ॥ ९ ॥

 रात्रीति । स पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सरतवृत्तान्तमित्यर्थः। अनुयतू' प्रष्टम् । ‘प्रश्नोऽनुयोगः पृच्छ च” इत्यमरः । उद्यतं प्रदत्तं सखीजनं ह्रिया लब्शया अपकुतूहलं निगकाइ न अकरोत् । न किञ्चिदाचष्ट इत्यर्थः। हृदयेन हृदा च शंसितु” तत्वरे त्वरितभृत्। औत् सुषयदिति भावः । त्वरासंधमादनमनुभावत्वदिति ॥१०॥

 दर्पण इति । किञ्चेति चार्थः। दर्पणे मुकुरे परिभोगनखक्षतादिसम्भोगची दशति पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवत: ॥ सदेः क्वसुः प्रणयिन: प्रियस्य हरस्य विस्वं प्रतिबिम्बम् । दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य विम्बमनु। प्रतिविम्बस्य पृष्ठत , इत्यर्थः । *अनुलक्षये” इति कर्मप्रवचनीयत्वात् द्वितीया । अंडं शक्तयः। स्त्रचपलप्राकट्यकतयेत्यर्थः। कानि कागि याणि यानि भेदवाच्यानि । अङ्गसंवरणादिचेष्टितानीत्यर्थः ॥


  1. प्रभातसमये।
  2. तु।
  3. विवसुपवस्वमात्मनः ।
  4. कान्यपि ।