पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२३६ कुमारसम्भवे संस्कारपूतेन वरं वरेण्यं बधू' सुखग्राह्यनिबन्धनेन ॥ ६० ॥ तै सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम्। अपश्यतामप्सरसां मुहूर्ते प्रयोगमायं ललिताङ्गहारम् ॥ १ ॥ ध्यमित्यर्थः । वृणतरौणादिक एन्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राहृ सुबोधं निबन्धनं रचना यस्य तेन वान्न येन । प्राकृतभाषया इत्यर्थः । बधूम् । नुनाव इत्यनेन सम्बन्धः ॥ ८० ताविति । तौ दम्पतौ सन्धिषु मुखादिनिर्वहणान्तेषु पञ्चसन्धिषु ॥ तदुक्त' दशरूपके–“मुखं प्रतिमुखं गर्भः साव- मर्मोपसंहृतिः” इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्य- दिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेन ‘कौशिकी स्यात् तु शृङ्गारे रसे वर तु सावती । रौद्रबीभत्स- योधैत्तिर्नियतारभटी पुनः। शृङ्गारादिषु भावसँरसविष्टा तु भारती”। तथा । “कौशिक्यारभटी चैव सात्वती भारती तथा । चतस्रो वृत्तयो ज्ञ यास्तासु नाट्य' प्रतिष्ठितम्" इति । रसान्तरेषु शृङ्गारादिरसभेदेषु । “शृङ्गारादौ विषे वयं गुणे रागे द्वे रस:” इत्यमरः । “शृङ्गारहास्यकरुणरौद्रवी- भयानकाः। बीभत्साङ्कतशान्ताख्या रसाः पूर्वैरुदाहृताः” । इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादि रागो यस्मिंस्तम् । यदि असे यो रागो विहितस्तदनुसारेण प्रयुतरागमित्यर्थः । यथाह काहलः-‘ट्रे ऽइते तथा वीरे पुंगीण प्रगीयते। शृङ्गारहास्यकरुणः स्त्ररोगेण प्रकी fर्तत:। भयानके च बीभत्से शान्ते गेयो नपुंसके” इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् ॥ “अङ्गहारोऽङ्गविक्षेपः” इत्य मरः । आदौ भवम् अयम् । रुपकान्तरप्रक्रुतिभूतमित्यर्थः।।