पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः सर्गः । २१ तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञा स्तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥ ४५ ॥ कम्पेन मूर्ध: शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन । आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम् ॥ ४६ ॥ एवैषां नयाण प्रथमावरयोर्भावः प्रथमावरत्व व्येष्ठकनिष्ठ भावः सामान्यं साधारणम् । इच्छया सर्वं ज्यष्ठा भवन्ति कनि- छायेत्यर्थः । एतदेव विवृणोति--कदाचित् हरो विष्णोराद्यः । कदाचित् हरिस्तस्याद्यः । कदाचिद्वेधास्तयोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्रष्टाद्यौ । एवमेतेषां पौर्वा- पथमनियतमिति दर्शितम् ॥ ४४ ॥ तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः धील च णनाम् ऐश्वर्यचिनां छत्रचामरवाहनानामुलगंण त्यागम विनतयेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शनन- मित्ते । दर्शनप्रदानार्थमित्यर्थः । ता नन्दिनः प्रतीहारस्य संश समेतो यैस्तादृशः। मम दर्शनं दापयेति मन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । “संज्ञा स्याच्चेतना नाम हस्तमै यार्थसूचना” इत्यमरः । तद्दर्शितास्तेन मन्दिना दर्शिता अय मिन्द्रः प्रणमभ्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिता: प्राञ्जलयः ऊताञ्जलयः सन्तः । तं भवं प्रणेमुः प्रणताः ॥ ४५ ॥ कम्पेनति । स देवः शतपत्रयोनिं चतुर्मुखं मूभ्रः कम्पेन तथा हरिं वाचा सम्भाषणेन वृत्रं हतवन्तं दृषeणमिन्द्रम् । अश्वभूखन्नेषु क्षिप्” इति क्षिप् । अनेन सन्धावशालेषान्