पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२०३ कुमारसम्भवे तमेव मेना दुहितुः कथञ्चि- द्विवाहदीक्षातिलकं चकार ॥ २४ ॥ बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम् । धात्र्यङ्गुलीभिः प्रतिसार्यमाण- मूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥ क्षीरोदवेलेव सफेनपुञ्ज पर्याप्तचन्द्रेव शरत्रियामा। प्रवृचो दृविं गत:। प्रागेवोत्पत्र इति भावः । यो मनोरथो वाघ्छ । “वाञ्छा लिप्मा मनोरथः' इत्यमरः । प्रथमं मनो रथान्तराप्राक् । अयमेव प्रथम मनोरथ इत्यर्थः। बभूव । मना दुहितुस्तमेव मनोरथभूतमव । तद्विषये तत्तोपचर॥ विवाहदीक्षायां विवाहकृत्य तिलकं कथञ्चित् कच्छे थ चकार । आनन्दबष्यान्धतयेति शेषः । विवाहानन्तरभावि त्वदन्येषामयमेव ,प्रथम मनोरथ इति भावः । युग्मकम् ॥ २४ ॥ बबन्वेति । अस्याः पार्वत्या अस्त्रैरानन्दबाष्पैराकुलदृष्टि- रतएव स्थानान्तरे कल्पितः सन्निवेशो निक्षेपो यस्य तत्। स्वस्थानादन्यन्न खापितमित्यर्थः। अतएव धात्रा उपमातुरङ्क लौभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणम् ऊर्णामयं मधरूि लोमनिर्मितम् ‘ऊ मेषादिलोम्नि स्” इत्यमरः ॥ । कौतुकहस्तस्त्रं मङ्गलहस्तस्त्रम् । `कौतुकं मले व इत” सुत्रे कुतूहले” इति शाश्वतः । बबन्ध च । मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः ॥ २५ ॥ क्षीरोदेति ॥ नवं नूतनं बौमं दुकूलं निवस्त आच्छ- दयतीति नवक्षौमनिवासिनी ॥ वस्ते शच्छदनार्थायिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्ज .