पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः सर्गः । २०५ आत्मानमालोक्य च शोभमान मादर्शविम्बे स्तिमितायता। हरोपयाने त्वरिता बभूव स्वौणां प्रियालोकफलो हि वेषः ॥ २२॥ (१)अथाङ्गुलियां हरितालमात्रै (२)माङ्गल्यमादाय मनःशिलां च । कणवसतमलदन्तपत्रं माता तदाय मुखमुन्नमय्य ॥ २३ ॥ उमास्तनोद्भद्मनु प्रहृङ्गो मनोरथो यः प्रथमं बभूव। आaभानमिति । किष्ठेति चाथः । गौरी शोभमानमात्मानं निजशरीरमादर्शविल्बे दऍणमण्डले ॥ “दर्पणे मुकुशदशं” इत्यमरः । स्तिमितायताच्यादरान्निश्चलायतलोचना सत्या लोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव। स्त्रीणां वेषो नेपथ्य प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य म तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः अनेन कालाक्षमत्वलक्षणमौत्सुक्यमुक्तमित्यनुसन्धेयम् ॥ २२ ॥ अथेति । अथ प्रसाधनानन्तरं माता मेनका माङ्गस्य मङ्गलार्थमार्धे द्रवं इतािलं वर्णद्रव्यविशेषं मनःशिलां धातुवि शेषं चाङ्गुलिभ्यां तर्जनीमध्यमाभ्यामादाय कर्णयोरवसते लग्ने (मले दन्तपत्र यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखमुन्नमय । ‘विवाहदीक्षातिलकं चका' (७। २४ ) fत्युत्तरश्लोकेनान्वयः ॥ २२ ॥ उमेति । डमाय: स्तनब्बेदमनु । स्तनोदयमारभ्येत्यर्थः । () अथाङ्लम्याम् । (२) मद्भयम्। १k