सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
कुमारसम्भवे ।


पशुपतिरपि तान्यहानि कृच्छा
दगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्यु-
र्विभुमपि तं यदमैौ स्पृशन्ति भावाः ॥९५॥


र्थाभिधानात् संक्षेपो नाम गुण उक्तः । तदुक्तम्-"संक्षिप्तर्थाभिधानं यत् संक्षेपः परिकीर्तितः” इति ॥ ९४ ॥

 भगवान् पशुपतियहमात्रविलम्बमपि सोढं न शशक तदोत्सुक्यादित्याह---

 पशुपतिरिति । उक' मनो यस्य स उकः ॥ “उत्क डन्नाः” इति निपातः । अद्रिसुतासमागमोकः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि । त्त्रीणौति शेषः । अह्नानि कच्छुदगमयदयापयत् । कविराह-अमौ भावा औत्सुक्यादयः सरिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं | कं न विप्रकुर्युः न विकारं नयेयुः । यद्यस्माद्विभु' समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्मृशन्ति । विकुर्वन्तौत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः कैमुतिकन्यायादापततौत्यर्थापत्तिरलङ्कारः । तथा च स्वम्-- “दण्डापूपिकयार्थान्तरपतनमर्थापत्ति” इति । अर्थान्तरन्यष्ठ इति केचित् तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयात्रोच्यते ? पुष्पिताग्राद्यत्तम्-“अयुजि नयुगरेफतो यकारो युजि च नजी जरगाश्च पुष्पिताग्र” इति लक्षणात् ॥ ९५ ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमलिनाथक्षुरिविरचि-

तया सविनीसमाख्यया व्याख्यया समेतः श्रीकालि

दासवतीं कुमारसम्भवे महाकाव्य उमाप्रदान

नाम षष्ठः सर्गः ।