अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥८८॥ |
एहीति । हे वसे पुत्रि । एहि आगच्छ । त्व' विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । "रतादिस्तव पर्यन्तं सर्व भिक्षा तपस्विनः’ इति वचनादिति भावः । अर्थिन याचितारो मुनयः । मया हमेधिन य्वस्थस्य फलं प्राप्तम्। इह परत्र च तारकत्वात् पात्र कन्यादानं गार्हस्थ्यस्य फल मित्षथुः ॥ ८८ ॥
एतावदिति । महीधरो हिमवांस्तनयामेतावत् पूर्वोक्त सुजार्षीनाह-किमिति। इयं त्रिलोचनवधूस्त्रास्बकपत्रौ व सर्वात्रमतौति । त्रिलोचनवधूरिति सिद्धवदभिधानेनाविप्ररि पत्रं दानमिति सूचयति ॥ ८९ ॥
ईश्चितार्थेति । ते मुनयः । ईश्चितार्थक्रिययेष्टायैकरले नदारं महत् ॥ “उदारो दातृमहतो:’ इत्यमरः । गिरेहैि। वतो वचो वचनमभिनन्द्य साध्विति संस्तुत्यस्बिकमम्बाम्। पथप्त इति पाकः फलम्। पुरःपाकाभि: पुरस्कृतफलाभिर शीर्भिराशीर्वादैर्धयामासुः संवर्धयमासुः ॥ ९० ॥
तामिति । प्रणामादरेण नमस्कारास तया स्रस्ते जा नदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लब्यमानं तामम्बिकमरुन्धत्यङ्गमारोपयामास । `रुहः पोऽन्यतरस्याम्' इति पकाः ॥ ९१ ॥