मूढं बुधमिवात्मानं हैमीभूतमिवायसम् । |
भाति । अतिदुर्बभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्धफलरूपकार्श्वयोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवत्तित्वेन च रूपणादूपकालडवरथेत्य,भयोः संसृष्टिः ॥ ५४ ॥
मूढमिति । भवदनुग्रहादात्मानं मां मूढं बुझीि विनाकृतं बुद्धमिव मूढो भूत्वा यो बुइवांस्तमिव ॥ कतरि तः । अयसमयोविकारं त्रैमीभूतम् । आयसत्व' विहाय सौवर्णव प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्त्रर्गमारूढमिव मन्ये । ज्ञानरूयस्थानान्यद्य मे परमुध्यन्त इति भावः ॥ ५५ ॥
अथेति । अद्यप्रभृतीत आरभ्य भूतानां प्राणिनां शुहयेधिगम्योऽस्मि। शथिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः सद्भिरध्यासितमधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । "निपानागमयोस्तोर्थसृषिजुष्टजले गुरौ” इत्यमरः ॥ ५६ ॥
अवैमीति॥ हे द्विजोत्तमाः । आत्मानं मां इयेनैव पूतं हृमवैश्यवगच्छामि । केन इयेन । तुिं गङ्गाप्रपातेन मन्दाकिनपातेन वो युष्णकं धौतयोः क्षालितयोः पादयोरभसाः च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च “प्रस्तुताप्रस्तुतयो:’ इति दीपकालङ्कारः । “प्रियः प्रियतशख्यानम्” इति लक्षणात् प्रियोऽलङ्कार इति केचित् ॥ ५७॥
- ↑ प्रचक्ष्यतें ।